पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। चित्ते चेतति सद्धासमत्ते सति सन् हासो विकासः तेन मत्ते सति । समिदपरमहः। समित्सु संग्रामेषु अपरः मह उत्सवः । भगवतः स्मरणाद्रणे सर्वेषां सकृल्लब्धजयत्वात् । अजः जन्मरहितः । तथा गदासंकरः । न विद्यते गदैः सह संकरो यस्य । तथा आ समन्तात् हेम्नः सुवर्णस्य वर्षणं वहति । आहेमासारवाही । कदवरसमहामोहसत्ताप- हारी । कत् कुत्सितः अवरसो महामोहः तस्य सत्तां स्थितिमपहरतीति । संस्कृतभाषाश्लेषः- चित्रे श्रद्धासमाप्तौ शमितपरमखो यो गताशङ्करोषा- द्बाधे मासारबाहिः कृतवरसुमहामोधसत्ताप्रथारिः । पाताद्यो योगसको विरलसुरनतः सत्यलास्यः कलाङ्कः काले कामेऽन्तको वा वितरतु तरसा सदृशं प्राप्तिदो वा ॥ चित्रे आश्चर्यवति श्रद्धासमाप्तौ आदरनिवृत्तौ । शमितपरमखः । शमितः परमखो] दक्षाध्वरो येन । तथा गताशङ्करोषात् । बहिवाधे सति मासारवाहिः, मया शोभया उप- लक्षिताः सारवा अहयः वासुक्यादयो यस्य । तथा कृतवरसुमहामोधसत्ताप्रथारिः । कृतवरः सुमहा आत्मोत्सवात् मोघसत्ता या प्रथा तस्या अरिः । पातादो(दु)पनताद्धेतोः विरलैः कतिपयैः सुरैः ब्रह्मादिभिर्नतः सम्यक्प्रार्थनया नमस्कृतः । यदाहुः---पूजका बहवः सन्ति भक्ताः सन्ति सहस्रशः। प्रसादपात्रमाश्वस्ता द्वित्रा एवं न 'पञ्चषाः । इति नीत्या योगसक्तः । सखलास्यः । सत्यं लास्यं नटनं यस्य स सत्यलास्यः । क. ल्पान्तादौ नृत्यतिः । तथा कलाङ्कः १. कला चान्द्री अङ्को यस्य सः. काले कामेन्तको वा । काले क्रमेण कोपः । वितरतु । तरसा वेगेन । सज्ज1सदृशं प्राप्तिदो वा. । इति प्रा. कृतभाषाश्लेषेण संस्कृतप्राकृतभाषाभ्यां श्लेषोऽयम् ॥ १४ ॥ कमलभ्यमलीकविधौ कमलं वय आननशोकमलं कमलम् । कुरुषे न विशङ्कमलं कमलं सवितेव लसत्कमलं कमलम् ॥ ९५ ।। सर्वपादान्तयमक तोटकवृत्तेन ।। त्वं कं जलं गाझ्मलभ्यं दुस्तरं अलीकविधौ मुकुटचन्द्रे, न तु नैर्मल्यात् । कं व्र. ह्याणं आननशोकमलं वयः सुखभगा (!) तथा कं न [कमलं ] जलं कुरुषे । अपितु तु सर्व सुखयसि । अलं विशङ्कं कत्वा । कमिव । सविता रविः कमलमिव । कथंभूतम् । लसन्ती कमला लक्ष्मीर्यत्र तथाविधम् ॥ ९५ ॥ १. "( सञ्चसं ) सदृश' इति पाठो भवेत्. १. इतः प्राइ विभो प्रसन्नास्य निता- तदीप्सयोऽजा अपश्यस्यतुलप्रताप । चिया दरिद्रस्य कृतावसाद दया, विश्वाधिपते प्रसाद । इति श्लोको देयते स बीचमत्कारतथा क्षेपक इति प्रतिभाति.