पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावतत्केन गृह्यते ॥ इह तु देव्याः स्तोत्रेण हाराध्याराधनं संबन्धः। तदीयगुणकर्माणि चेहाभिधेयानि । तदभिधानद्वारकस्य च देव्याः- राधनस्य दृष्टादृष्टफलभूतो भोगापवर्गफलप्राप्तिः प्रयोजनम् ॥ तत्रादौ कविः स्तोत्रं प्रारिप्मुः पञ्चभिः श्लोकैः कुलकं चकार- अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥ १ ॥ नतापनीतक्लेशायाः सुरारिजनतापनी । न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥ २ ॥ वक्रपद्मा विधान्ति यथा यो साक्षाद्या च जनितस्थितिसर्गलयोदया। ३ ।। याश्रिता पावनतया यातनाच्छिदनीचया । याचनीया घिया मायायामायासं स्तुताश्रिया ॥ ४॥ तमांसि ध्वंसमायान्ति यस्याः स्तुत्यादरेण वः । तस्याः सिध्यैः धियां मातुः कल्पन्तां पादरणवः ॥ ५ ॥ (कुलकम्) तस्या धियां मातुः पादरेणवो वः सिध्ध्यै कल्पन्ताम् । तस्मा वर्णयिष्यमाणस्वरूपाया धियां मातः प्राजसंन्याः संबन्धिनः पादरेणबवरणपांसवो वो युष्माकं सिध्ध्यै समाहितसंपर हो पन्ता संयन्तम्- या वेषा न वेद । या देवीं केषा जार में बेदन नेति में जानाति । अधिदात्रामा असले का अमिन वेति कोऽन्यो बराको ज्ञास्यतीति अथा सोधान्तातौ क्षमते न धातुः । धातुः प्रजापतेरपि न क्षमते इत्यर्थः । किं भूतां याम । अनन्तमहिमव्याप्तविश्वाम् । अनन्तो भगवान्विष्णुस्तस्य महिमा माहात्म्यं तेन व्याप्तं पूरितं विश्वं त्रैलोक्यं यया ताम् । हरिमाहात्म्यवशेन हि भगवती जगदापूरय तीत्यागमः। अथवा अनन्तैर्बहुभिरप्रमेयैर्महिममिर्व्योप्तं विश्वं यया ताम् । अथ च या देवी मातेव जननीच प्रणते मानवे प्रह्रे भक्ते नरे दयां धृणां भजते पोषयति । यस्या शर विज्ञेयस्वरूपाया आपि भक्तैर्भक्तिसुलभत्वमुक्तं भवति । या वेघा अपि न वेद सा भक्त्त्या सुलभेति स्तोत्रोद्यमे साफल्यम् ।। १ . अपरम्। यस्यास्तापनी तनुर्भानवी मूर्तिः न न तुल्या। सदशैवेत्यर्थः । तपनस्येयं तापनी । विभूताया देव्याः।नतापनीतक्लेशायाः। नतानां भक्तानामपनीता विनाशिता क्ले "शा रागादयो यया तादृश्या कीदृशी च तापनी तनुः । सुरारिजनतापनी देवशत्रुमर्दनी। 9. अतिसाफल्यम्- क