पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । हे हर हर रोरार्हा होरां रहोहरारिराहुहरे । रोहाहारैरहरहरहिहारेहाहरां हा हा ।। ७६ ।। अयं लोको द्अक्षरः ।। आर्यावृत्तम् ॥ हे हर, अहि (हार) वासुकिभूषण, त्वं होरां लग्नस्थितिं रोरार्हा दारिद्यावहां हर निवा- स्य । रंहोहर रणे वेगहारो योऽरिः शत्रुः स एव राहुस्तस्य त्वमेव हरिः शिरोहरत्वात् । तदामन्त्रणं रंहोहरारिराहुहरे, रोहाः कन्दमूलादयस्तेषामाहारैर्भक्षणैरहरहः प्रतिदिनम् हा कष्टे । ईहां चेष्टां हरति तथाविधा होरां हर ॥ द्यक्षरः॥ ७५ १३.७६ ॥ सारतास्थिरवरस्थिता रसाभारसौम्य गणराम्यसौरमा । राजते स्तुतिमतिस्तुतेऽजरा दक्ष मान्य धनधन्यमाक्षद ।। ७७ ।। स्वर्गमार्गद निरर्गलातनुः सा मतात्तकृतकृत्ततामसा । इन्दुमण्डितशिरःस्थजाह्नवीतीरभाव्यभयभव्य भारती ॥ ७८ ॥ प्रतिलोमानुलोमपादार्धः ।। युगलकम् ।। है स्वर्गमार्गद, तथा हे इन्दुमण्डितं च तच्छिरस्तत्र तिष्ठतीति तादृशी या जाह्नवी तस्यास्तीरभावि यदभयं तेन भव्यं उत्कृष्ट । तथा हे दक्ष सर्वत्र कुशल, हे मान्य पूज्य, तथा हे धनधन्यम धनेन मरत्तादिभ्यो दत्तेन धन्या मा शोभा यस्य तादृश, तथा हे अक्षद अक्षाणि दिव्येन्द्रियाणि दूरदर्शनश्रवणयोग्यानि ददाति यस्तादृश, तथा हे रसा. भारसौम्य रसाभारे भूभारोहहने सति' "असौ निर्विकारा ते तव भारती राजते । कीदृशी । सारतास्थिरवरस्थिता सारतया स्थिराश्च ते वरास्तेषु स्थिता । पुनः कीदृशी । गणगम्यसौरभा गणैनन्दिप्रभृतिभिर्गम्यं प्राप्यं सौरभं यशःपरिमलो यस्याः तथा किंभूता । स्तुति(मतिः) स्तुती मतिर्यस्याः । तथा निरर्गला निर्निरोधा। अजरा नित्यतरुणा । पुनः कथंभूता । मतात्तकृतकृत्ततामसा । मतेन आत्तं च तत् कृतं पुण्यं तेन कृतं छिन्नं तामसं यया । पुनः कीदृशी । अतनुरस्वल्पा ॥ रथोद्धता ॥ युग्मम् समाधिकारा सुरसारसादरा समाधिकारासुरसारसादरा । समाधिकारासुरसा रसादरासमाधिकारासुरसारसादरा ॥ ७९ ॥ सुदर्शनस्येव युधि द्विषां वधे मत्तिः सुतीक्ष्णा भवतो जयत्यसौ नमामि शंभो शमिमानवाभयं नयं भवानर्थजितं भवाततम् ।। ८० ।। आद्यः पादाभ्यासयमकम् । द्वितीयस्त्रिशूलबन्धः ॥ हे शंभो, कीदृश । समाधिकार समावि चित्तैकाग्र्यं करोति समाधिकारस्तादृश; भवतो. श्रीकोऽधिकारो यस्याः सा । तथा किंभूता । सुरसारसादरा सुरसारेषु, विष्णुप्रभृतिषु मतिरसौ सुतीक्ष्णा जयति। कथंभूता। समाधिकारा सह मया वर्तते यः स समः स- सादरा सानुग्रहा। पुनः कीदृशीं । समाधिकारासुरसारसादरा समाधिकाराः तुल्यबलवीर्यः,