पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। साराणि येषु तानि रसासारसाराणि, तथा सारसानां हंसानामारं रामनं राति ददाति एवंविधानि सारसानि सरःसमूहा यस्यां वारुण्या जलपूर्णा तथाविधापि मां तापयंतीति । अतो हेतोर्यमसेना ईर्ष्यामयी मां हसति । धामनि गृहे ॥ १॥ ७२ ॥ अक्षय्यं क्षीणसादं नृबुधहतमयं सत्फलं धीरचित्तं तुङ्गं श्रीसाररक्षोसुरहतिरभसं त्वां सगङ्गं श्रितं वा । चर्यालक्षेण लोकक्षममलयमहासंक्रमं स्वैरसज्जं स्थाणो स्वाबद्धसर्वाहबगरिमगुणं के तु नेह स्तुवन्ति ।। ७३ ॥ अयं श्लोको गाथागर्भः ।। हे स्थाणो, इह संसारे के त्वां न स्तुवन्ति, अपि तु सर्व एव । यतः अक्षय्यं क्षेतुं शक्यः क्षय्यःः1 न क्षय्यः अक्षय्यः, तादृशम् । जिक्षेः शक्ये' इति यः। तथा. क्षीणः सादः संसारावसादों यस्मात् , सादृशम् । तथा नृणां बुधानां देवानां च हतं भयं येन स तादृशं च । सतां फलं भुक्तिमुक्तिरूपं यस्मात् । धीरं स्थिरै भक्तानुग्रहं प्रति चित्तं यस्य । तुङ्गमत्युन्नतं सर्वोपरिवर्तित्वात् । श्रिया सारा ये रक्षोसुरास्तेषां हतौ रभस आ- दरो यस्मात् । चर्यालक्षेण बहुलचर्यामिः सर्वदर्शनानां पृथक्प्रस्थापनत्वादाचारभेदैः श्रितं सेवितम् । सगङ्गं गङ्गाधरम् । लोकेषु सप्तम मध्ये तु क्षमं सर्वसहम् । अलयोऽवि- नश्वरः महान् संक्रमो यस्यः । स्वैर स्वातख्येण सज्जं पञ्चकृत्यसंनाहम् । स्वेनात्मना आबद्धाः सर्वाह्ववेषु दैत्ययुद्धेषु गरिमगुणा येन दुरासदत्वात् । एवंविधम् ॥ गाथागर्भोऽ- यम् ॥ गाथा यथा--'अय्यं णदबुभहमलं रत्तङ्गं सारमुहरसासङ्गम् । तं चलणकमलभ- समं रज्जं णो वसहगमण तुह ॥ इति । अस्य संस्कृतीकरणम्-'आर्य नतबुधभ्रमरं रक्ताङ्गं सारशुभरसासङ्गम् । तव चरणकमलमसमं राज्यं नो वृषभगमन तव ।। इति । अस्या गाथायाः स्पष्टोऽर्थः ॥ ७३ । सुरासुराजये जयेऽदरादरादमादमा । सदा सदारतारता विभो विभोगता गता ॥७४ ।। आवलिः ।। सुरासुराणामाजये संग्रामाय जये विषये अदरो निर्भय आदरो यथा तथाविध अद- रादर हे विभो विभोगता। विशिष्ट भोगता इति यावत् । सदा सर्वकालं सदारतायां गार्हस्थ्ये रतासक्ता । अमा अविद्यमाना लक्ष्मीर्यस्याः नि: श्रीका म(१)... गता ॥ आवली ॥ ७४ ।। अयं प्रसन्न तत्त्वद स्वतन्त्रसर्गतत्पर । जगत्रयप्रवर्धन क्षतस्मर प्रहर्षद ।। ७५ ॥ अयमेकस्वरः श्लोकः