पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । सारापत्ता तस्या हतित्वं रणभावस्तस्मात्सारापाताहतित्वात्, तथा अमरनुतवंशित्वात्सु- रस्तुतजितेन्द्रियत्वादगम्या दुष्प्रापा । अरसा वीतरागा च या च पाने रक्षणे त्यागे च भक्तजनाय इष्टदाने रक्ता हेबाकिनी तथा अनवज्ञा न विद्यतेऽवज्ञा भक्तजनं प्रत्य: बहेला यस्याः। तथा आ समन्तात् कृपया आशा यस्याः सकाशात् । तथा--परदः कृतो रविर्यया पूष्णो दन्तदलनादरदकृतरविः । या च तनुः सख्या सेवयाभिरामा भ- क्तानभिरमयति । या कारापक्षादपि अर्थात्संसाररूपात्कारागृहाद् द्यां स्वर्गं नयति । या अजा आद्या. शकिः । इनत्वे सति प्रभुत्वे सति पुरि भवने त्राणरता पालनोद्युक्ता या निजतनुः क्षित्यादिरष्टविधा तामपि त्रायतें परेण रूपेणावितिष्ठते । अत एव अविपन्ना कल्पादावप्यनश्वरीं । सनादा सशब्दोल्लासा । यतः 'न सोऽस्ति प्रत्ययो लोके यः शब्दा- नुगमादृते । अनुविद्धमिव ज्ञानं.सर्वं शब्देन भासते. । इति वचनाच्छब्दात्मकं परं ब्रह्म- रूपम् ॥ युगलकम्॥६८॥१९॥ सुरद्विषां धामनिवारणाय तुभ्यं समिद्धामनि वारणाय । नमोऽस्तु भव्याय भवाकुलाय संसाररक्षाप्रभवाकुलाय !! ७० यमकम् ।। हे भगवन् , तुभ्यं नमोऽस्तु । सुरद्विषां दैत्यानां धामनिवारणाय तेजोग्लापनाय । तथा समिद्धामनि धारणाय समिद्धामनि दन्तिनो(?) क्षोभकत्वात् । भव्याय सर्वोत्कृ- ष्टाय । अकुलाय जन्मरहितत्वात् । संसाररक्षाप्रभवैराकुलाय व्यग्राय ॥ ७० ॥ रसारसासारसार सारसाररसार सा । रसां रसासारसारसारसाररसारसा ॥ ७१ ॥ मरुस्थलीत्वं त्वदृते मयीह सति धामनि । अतो मां यमसेनेर्प्यामही हसति धामनि ।। ७२ ॥ अत्राद्यो व्द्यक्षरो द्विस्नरोऽसंयुक्ताक्षरोऽर्धभ्रमः सर्वतोभद्रः, समुद्गय- मकम्, मालायमकम् , आवृत्तयमकम् , गूढचतुर्थः, गूढतृतीयः, गृढत्रिंश- दक्षरों वा, गोमूत्रिकादयश्च बहवो बन्धा अत्र श्लोके पृथकप्रस्तार्य प्रेक्ष- गीयाः। द्वितीयः पादयमकः ।। हे भगवन् , रसारस रसेभ्यः कारादिभ्योऽरसो विमुखस्तामन्त्रणं हे रसारस, तथा असारसार असारात्संसारात्सारः तादृश हे असारसार । अरीणां समूहमारम्, सह आरेण वर्तते यत्तत्सारम्, सारं च तत्सारं बलं तत्र रसो यस्य सः । तद्विधा सा लोको त्तरा रसां भूमिः आर जगाम । मरुस्थलीत्वं मयि विषये धामनि खे तेजति सत्यपि इह संसारे । यतः । कीदृशी भूः रसासारसारसारसाररसारसा। रसस्य जयस्य ये असारास्ते