पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । पते, त्वं कृपयां सुचारू रमणीयः । मा अव मामव रक्ष क्षमया सामर्थ्येन सा वरोत्कृष्टा या रुक्तया संन्यो हेते विषये यत्परमतिसौख्यं तथाविधं सुखं सुष्ठुं खानीन्द्रियाणि यत्र तद्दर्शय ! स्फुरबन्धोऽयं श्लोकः ॥ ६६ ॥ कालाक्रान्ता तनुरमरनुत त्रस्तेयं मे विदितहित दिवि नश्यत्यग्रे तव सरस बत ग्लानिः सेयं वशिदमद शिव ॥ ६७ ॥ प्रतिलोमानुलोमपादार्धः ।। हे अमरनुत, हे दिवि विदितहित, हे सरस लब्धात्मविश्रान्ते, हे वशिनां जितेन्द्रि- याणां दमद सर्वसहत्वदायिन् , मम संबन्धिनीयं तनुः कालेनाक्रन्ता त्रस्ता ।बत आश्चयें। तव प्रभोरग्रे नश्यति सेयं ग्लानिः शिवः सर्वेषां श्रेयस्कर ॥ भ्रमरविलसितं वृत्तम् ॥६॥ दानासन्ना पवित्रानुलजनितरणत्रा रिपुत्वे न जेया माराभिख्यासचर्याविरतकृदरमद्यापि दक्षा पराका । शापाकृत्यायनज्ञावनमनजनिमुक्तारंगत्यानपाया या सा रम्यागदत्वा शिवतनुरमदत्वातिहत्तापरासा ॥ ६८ ॥ सारापत्ताहृतित्वादमरनुतवशित्वादगम्यारसा या या पानत्यागरक्ता मुनिजनमनवज्ञा नयत्याकृपाशा । कारापक्षादपि द्यामरदकृतरविर्या च सख्याभिरामा याजेनत्वे पुरि त्राणरतनिजतनुत्राविपन्ना सनादा ।। ६९ ॥ प्रतिलोमानुलोमाभ्यां स्रग्धराद्वयम् ॥ (युग्मम् ) सा शिवतनुः एवंविधा सती मुनिजनं भक्तलोकं कारापक्षात्संसारबन्धादपि द्यां न- यति । यतः । दाने आसन्नाभ्यर्णवर्तिनी । तथा पवित्रा । आ समन्तान्नुतं स्तवनं येषां. तथाविधैरानतैर्भक्तजनैर्जनितो यो रणो विपक्षैः सह कलहस्ततस्त्रायते आनुतजनितरणत्रा। रिपुत्वे सति असुरादिभिर्न जेया । मारस्य कामस्य याभिख्या रूपलावण्यकान्तिमत्त्वा- च्छोभा तया समानचर्या । तद्युक्तेत्यर्थः । विरुद्धं यद्रत रमणं संसारासक्तिस्तत्कृन्तति छिनत्तीति विरतकृत् । अरमत्यर्थ अद्यापि अविच्छिनप्रवाहेण दक्षा पञ्चकृत्यकुशला । परान् शत्रून् अकति कौटिल्येनोलङ्घयति पराका । शापोऽकृत्यं यस्याः शापाकृत्या कृ. पया वरदायिनीत्वात् । अयनं मुक्तिरामनं जानातीति अयनज्ञा । अवनमनेन नमस्कारेण जनजन्मनो मुञ्चति अवनमननिभुक् । तारगत्या विस्तारकेणोपायेन अन्यायाविन- श्वरी । एवं विधा या प्रसिद्धा सा. रम्यमगदत्वमारोग्यं यस्याः सा रम्यागदत्वा । तथा अ- मदत्वं दीनतामतिशयेन हरति यस्तस्य भावोऽमदातिहत्ता तेजःप्रसादस्तेन परानस्यति क्षिपति परासा अमदातिस्तापरासा एवंविधा । सारा बहला या आपदस्तासां भावः