पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । शयत्तस्य क्षतै हानौ अभाय निष्प्रपञ्च, सुकरत्वात् । साधुना पथा उपलक्षित, ते तुभ्यं नमः । अस्सै अनुभवगोचरत्वात्संविद्रूपेण वर्तमानाय 'पृथेन' इति, “साधुनाभाय' इति, 'कुसुमेषुस्य' इति, 'दक्षते' इति, 'परमस्मै इति 'नमस्ते नमस्तव" इति। एते आमुखे अपशब्दा भासन्ते इति अपशब्दामासाः ॥ ६३ १६ किन्ते कार्यं भर्गभयं कामद काला- च्चिन्तेयं में मन्युममेयं जनयित्री । व्यक्ते भालादग्निदलाभां तव दृष्टि- र्भुक्ते (नैनं मन्दमतिं] नैपुणतः किम् ॥ ६४ ॥ मत्तमयूरेण नन्दिकावर्तबन्धः ।। हे कामद सर्वाभिलषितदायिन् , इयं मम चिन्ता अमेयं बहुलं मन्युंजनयित्री। जन- यिष्यतीत्यर्थः । इयं का । यत्कालाद्भयं कार्य छिन्ते तव संबन्धिनी दृष्टिभालाङ्ललाटात् अग्निदलाभां वह्निखण्डद्युतिं व्यङ्क्ते प्रकाशयति सा दृष्टिरेनं मन्दमतिं तुच्छहृदयं नैपुणतो दार्ढ्येन किन भुङ्क्ते । क्रिमिति भस्मसान्न करोतीत्यर्थः । मत्तमयूरेण नन्द्यावर्तबन्धः ॥६॥ गिरिमिद्विधिजिद्विद्धि द्विषि च्छिन्द्धि स्थितिं गिरि। श्रियि सिद्धिर्धियि विधिर्विच्छित्तिरिति चिद्भियि ।। ६५ ।। इकारान्त एकस्वरः।।। गिरिभिद्विधिजित गिरिभिदिन्द्रः, विधिर्ब्रह्मा तौ भुजस्तम्भेन शिरश्छेदेन च जित: वान् । तत्संबोधनम् । त्वमिति विद्धि जानीहि । किम् । द्विषि वैरिणि या गीस्तस्यां स्थितिं संनिधिं छिन्द्धि विदारय । अत एवं नोऽस्माकं श्रियि सिद्धिः, धियि प्रज्ञायां विधिर्विधानम् । चिद्भयि चितोऽपरिमितज्ञानाद्या भितिः संसारभ्रमणाद् तस्यां विच्छि. तिर्विच्छेदः । भवतीति सर्वत्र योज्यम् । इकारान्तस्वरोऽयम् ॥ ६५ ॥ शर्व नयः शुभो वितरणे गुणे रत विभो तिष्ठति ते श्रियेऽजर पर चिरं परजये तत्कृपया सुचारूरव मा क्षमावररुचा दर्शय सद्धिते परसुखं सुखं सुरपते ।। ६६ ।। स्फुरबन्धः हे शर्व विभो, गुणे रत, अजर जरारहित, ते तव नयो नीतिराचारः शुभस्तिष्ठति । वि- तरणे दानाविषये परमत्यर्थ चिरं श्रिये भर उत्कृष्टों यो जयस्तस्मिन्सति । तस्मात् हे सुर- 7. आदर्शपुखकयोस्तु किन्ते' इत्येव पाठ उपलभ्यते; परंतु टीकायों छिन्ते' इति व्याख्यानस्थोपलभ्यमानत्वात् 'छिन्ते' इत्येव पाठः स्यात्,