पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सामर्थ्य संसारसागरतरणयोग्यं ददाति यस्तथाविध, तव मूर्तिस्ते सर्वकालं जीयात् । रसासार रसायां मध्ये सार उत्कृष्ट, अरसा वीतरागा सारास्थि कृत्वा स्थिर आसः स्थि- तिर्यस्याः । तथा भुवि विदिता । इति त्रिशूलबन्धः ।। ५९ ॥ सा विडम्बकतां नीत्वाप्तवती क्रूरतां विभो । विसारे कुरुते कालसेना दोषं मयि स्थिरा।। ६०॥ डमरुबन्धः ॥ कालसेना मयि विसारे दुर्बले विषये दोषं कुरुते । विडम्वकत्वं कृत्वा तामाप्तवती ।। डमरूबन्धः।। ६० सारा बन्धैर्नाज विभो मियार्ता मे मतिः परा । सा राजते विनैव त्वां भगवन्नेहि रहसा ॥ ६१ ॥ हलबन्धोऽयम् ॥ खड्गबन्धात्प्रभृतिभिः सप्तभिरमीभिर्बन्धैः कविनामगर्भश्चक्रबन्धः कृतं चक्रमिदं बन्धैरवतारेण सप्तभिः' इति निर्गच्छति ।। हे अज भगवन् , इयं मे मतिर्नैव विराजते । बन्धैराणवसायीयकार्मगैः (१) पाशै- र्यत उपलक्षिता । सारा दुर्लभमनुष्यजन्मप्राप्त्या भव्या सती भिया यमभीत्या आर्ता। परा उत्कृष्टा त्वं रंहसा त्वरितं एहि । मां पाहीत्यर्थः ॥ इति हलबन्धः । “कृतं - मिदं बन्धैरवतारेण सप्तभिः' इत्यक्षराणि चक्रादुच्चित्य निर्गच्छन्ति ।। ६१॥ सो हेममग्गसग्गो सोहारोहक्समो विसुद्धो सि । सिद्धो सुविमोक्खहरो हासोग्गो सम्गममहेसो ॥ ६२ ॥ प्रतिलोमानुलोमगाथा ।। एतस्याः संस्कृतीकरणम्- स हेममार्गसर्गः शोभारूपक्षमो विशुद्धोऽसि । सिद्धः सुविमोक्षहरो हासोग्ः संगममहेशः ।।' स हेममार्गसर्गः मरुत्तं प्रति शोभारूपा क्षमा यस्य । सुविमोक्षः। वरः (१) । यस्य संबन्धी अट्टहास उग्रः। सङ्गमेत्यामन्त्रणम् ॥ १२ ॥ पथेन साधुनां माय कुसुमेषुस्यदक्षते परमस्मै सतेजाय भोनमस्तेनमस्तव ।। ६३ ॥ अपशब्दाभासः ।। भो भगवन् , इन स्वामिन्, हे अनमस्तव न अमाअनमा सश्रीकाः स्तवा यस्य तादृ- ग्मिव । अविद्यमाना मा लक्ष्मीर्येषां तेऽभाः । तथा कुसुमेषोः कामस्य यः स्यदो दर्पाति-