पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। पिता सुराणां क्षपितासुराणां भवस्यनून विभवस्य नूनम् । स्वराजितानां मुखराजितानां सदाशिव त्वं तु सदा शिवत्वम् ॥ ५१ ॥ सर्वपादाद्यन्तयमकम् ॥ हे सदाशिव त्वमेवं तु सदा सर्वकालं क्षपितासुराणां मारितदैत्यानां सुराणां विष्णु- प्रभृतीनां संबन्धिनो विभवस्यैश्वर्यस्य पिता निर्माता भवसि । नून निश्चितम् । अनूनं कृत्वा खे आकाशे राजितानाम् । तथा मुखरैर्निन्दापरैर्वाचालैः प्रतिपक्षैरजितानां त्वमेव शिवत्वं शिवस्य भावः शिवत्वं कल्याणभावः ॥ सर्वपादाद्यन्तयमकम् ॥ ५१ ॥ अहीनभोगाम रणादराय सदानयज्ञान्त कविग्रहाय । सुभूति चेतो हरवीरकाय वरायते सज्ज नमोऽक्षदाय ॥ ५२ ॥ अहीनभोगाभरणादराय सदानयज्ञान्तकविग्रहाय । सुभूतिचेतोहरवीरकाय वराय ते संजनमोक्षदाय ॥ ५३ ।। महायमकम् ।। युग्मस् । हे हरवीरकाय, तथा वर उत्कृष्ट, अहीनभोगादिषु राज्यादिषु आभा यस्मा- त्सोऽहीनभोगाभस्तदामस्त्रणम् । तथाविध । सर्वत्र भवदीप्तेरेव- स्फुरणात् । तदु- क्तम्-न सा जीवकला काचित्संतानद्वयवर्त्तिनी । व्याप्त्री विश्वकला अस्सामधिष्ठात्री न विद्यते ॥ इति । तुभ्यं नमः । अक्षाणीन्द्रियाणि दयते पलायते । मनःप्रभृतीनां सर्वेन्द्रियाणां बाह्यपदार्थानां च तदधिष्ठानमन्तरेण ग्राहकत्वग्राह्यत्वासिद्धेः । यदाहुः-- "आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन' इति । रणादराय रणादैत्यसंग्रा- माददरो निर्भयस्तस्मै रणादराय सदालब्धजयस्वात् । सदानः सदक्षिणः यज्ञान्तः यस्य द्वेतोः । सर्पयज्ञसंपादनवेलायां रुद्रप्रीत्यर्थमेव दक्षिणादि यजमाना वितरन्ति । तावच्च यज्ञस्य पूर्णता न भवति । 'भृतो यशस्त्वदक्षिणः' इति नीत्या यजमानमूर्ते । कं जलं मूर्तिर्विग्रहो यस्य तथाविधाय, अष्टमूर्तित्वात् । शोभना भूतिरैश्वर्य यत्र तत् सुभूति ऐ- श्वर्येण भोगः समोक्ष ईश्वरेच्छया प्राप्यते तथाविधं कृता । वः समुच्चये। इतो. लोकात् । चेतः, इति पदच्छेदः । आयते मुक्तिमार्गे सज्ज भक्तजननिस्तारेण संनद्ध, ते नमः अक्षदाय । एकोऽर्थः ।। अर्थान्तरं यथा---वराय वरार्थं सज्जनानां मोक्षदाय तुभ्यं अहीनामिना नागराजास्तेषां ये भोगाः शरीरसंनिवेशास्त्रदाभरणे आदरो यस्य । सदा सर्वकालं नयं संसारस्थिति जानाति यस्तत्संबोधनम् । अन्तकं प्रति विग्रहो विरोधो यस्य सः। तथा सुभूत्या भस्माङ्गरागेण चेतोहरो वीरको लाम गणो यस्य स तथाविधाय । इति महायमकम् ॥ युग्मम् ॥ ५२ ॥ ५३ ॥ साध्यं सुकृतिभिर्यत्नैरमरैर्नुतमञ्जसा । साहसानां निधि गम्यं न दुरासदतेजसा ।। ५४ ॥