पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 1श्रीमदानन्दवर्धनाचार्यकृतं देवीशतकम् । श्रीकय्यटकृतथा टीकया सहितम् नमोऽस्तु वागधीशाय हयग्रीवाय विष्णवे। कौमोदकी2चक्रशङ्खकमलाङ्कितपाणये ॥ प्रणम्य परमं धाम यत्प्रसादाज्वलन्त्यमी । महामोहमहिम्नार्ता रविताराधिपानलाः ॥ संचिक्षिप्सुरलं स्वबुद्धिरचितैः पर्यायशब्दैन्यंधा- ट्टीकां वलल्भदेव 3उत्तममतिस्मृत्यै भवानीस्तुतौ । पर्यायैः क्रियया समं कविकृतान्पाठान्पठन्कय्यट- श्चन्द्रादित्यतनूज इत्यमकरोत्तस्यैव नप्ता नवाम् ।। आनन्दवर्धनकविप्रवरप्रणीतकाव्ये किमल्पमतिना क्रियते मयैवम् किंवा पिपीलककुलानि न संश्रयन्ते मत्तेभदन्तपदपक्तिममेयसाराम् ।। विषमेडत्र काव्यमार्गे सुरसे वा स्खलति मामकी धिषणा । 4बालेय निसरणं (2) संप्राप्य शनैः शनैस्तदपि याति । सर्वत्र काव्यारम्भे संबन्धामिधेययोजनानि ज्ञातव्यानि सिद्धिः श्रोतुप्रवृत्तीनां संब- धकथनाधतः । तस्मात्सर्वेषु शाख्नेषु संबन्धः पूर्वमुच्यते ॥ सर्वस्वैव हि शास्त्रस्य कर्मणो १. ध्वन्यानोकाद्यनेकग्रन्थकता श्रीमदानन्दवर्धनाचार्यः कश्मीरेषु खिस्ताब्दीयनवम- शतकोत्तरभाग आदित्यसकृदुक्तम्, अयं देवींशतकटीकाकर्ता कय्यटोऽपि भीमगुप्तनरप- तिराज्ये तत्रैव ४०७८ मितेषु गतकलिवर्षेषु (९७८ खिस्ताब्दे) टीकां प्रणीतवानिति टीकासमाप्तौ विलोकनीयम्. अयं कय्यटश्चन्द्रादित्यसूनुर्वैयाकरणकय्यटस्तु जय्यटात्मज इत्यस्माद्भिन्नः सटीकस्य देवीशतकस्य पुस्तकद्वयमासादितमस्माभिः तत्रैक पुण्यपत्तनस्थ- राजकीयपुस्तकालयस्थं श्रीयुतभाण्डारकरपण्डितैः कृपया प्रहितमासीत् , तत्क-संज्ञकम् अपरं कश्मीरमहाराजाश्रितज्योतिर्विदुपाह्नश्रीदयारामपण्डितैः प्रहितम्, तत्ख-संज्ञकम्, २, 'शङ्खचक्र' ख. ३. "उन्नतमति'ख ४. ख पुस्तके बालेयनिसरणं संप्राप्य' इत्यस्य स्थाने त्रुटिचिह्नमस्ति.