पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । सा राजते तनुरलं वरदा परासा- सारापदारहित सन्महासदासा । सादासहाहतभवोत्करकाविलासा सालाविकारपृथु साक्षततेऽजरासा ।। ४३ ॥ अष्टदलपद्मबन्धः ।।

हे भगवन् , असारायोग्या वासादापत्तमा रहित अतारापदारहित, तथा सह अक्ष-

तत्याक्षमालया पाणिगया सह वर्दते यः स तदामश्रणं साक्षतते, ते तव संबन्धिनी सा तनुः राजते । वरान्ददातीति वरदा । परानस्यतीति परासा। परेषां शत्रूणामास: कोपो वा यस्याः सकाशात् । सन्मह उत्कृष्टोत्सदो हासः प्रमोदो येषां तथाविधा दासाः सेवका यस्याः सा सन्महहासदासा । तथा सादं न सहन्ते इति सादासहा मृदवस्ते- षामा समन्ताद्धतो भव एवोच्चैः करकाणां वर्षोपलानां विलासो बाहुल्यं यया सा सादा- सहाह्रतभवोत्करकाविलासा । कथम् । सालवदविकारपृथु निर्विकारप्रांशु कृत्वा । तथा अ. जरासा व विद्यते जराया आसा आस्था यस्याः ॥ पद्मबन्धोऽयं वसन्तकृत्तेन ॥ ४३१ वरा सारवरासारपराभवपरा भव । समुद्वृत्ता समुद्वृत्तातनुस्तव तनुस्तव ॥ 4४ ॥ यमकावली ॥ हे भगवन् भव, समुदृत्तातनुस्तव सम्यम् उचैर्वृत्तानि छन्दांति अनुष्टुप्प्रभृतीनि येषु तथाविधः । अतनवो बहलाः स्तवाः स्तोत्राणि यस्य तादृश, तव संबन्धिनी तनुर्वरो- स्कृष्टा । तथा सारा मुख्या ये बरास्तेषामासारो बहलवर्षणं तत्र परोद्युक्ता सारवरासा- रंपरां । तथा अभवं मोक्षं पिपर्ति पोषयति अभवपरा । तथा समन्तादुद्भुत्ता भैरवत्वा- दुत्कटा।।44।. साध्या मूर्तिर्गुणैर्या ते भावितत्वमतारसा । सारताबाधितविभा रविजस्य सदैव सा ॥ 4५ ॥ क्षुरिकाबन्धः ॥ सा तव मूर्तिर्यमनियमादिभिर्गुणैः साध्याराध्या । सा का । या भावितत्वेन मता प्रिया भावितत्वमता । तथा अरसा वीतरागा। तथा. सारतयोत्कृष्टत्वेन बाधितोपशमिता विभा यया । कस्य । रविजस्य मृत्योः । सदा सर्वदैव ।। इति क्षुरिकाबन्धः ॥ ४५ ॥ कुरवे काले साव यमारेऽरस सुकुमार सदानव देव । अनवदयाचित भव मदनारेऽचल मामुक्तियते मयि हेव ॥ ४६॥ संस्कृतकाश्मीरापभ्रंशश्लोकः ।।