पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। असौ गिरीशो महादेवः, गिरीणामीशो मेरुः, गिरि वाचि ईशो बृहस्पतिश्चेति. त्रय उक्ताः । तत्राद्येऽर्थे---गिरीशो महादेवो जयति । सु शोभनानि खानि ददातीति सुखदः । तथा अनवमत्वेनोत्कृष्टत्वेन सु शोभनानां वर्णानां ब्राह्मणादीनासक्षराणां वा आ सम- न्तात्कृतिः सृष्टिर्यस्यात्स सुवर्णाकृतिस्तादृशो विग्रहः शरीरसंनिवेशो यस्य । नागराजा- दीनां प्रथया प्रसिद्ध्या त्यको विरहितः सर्वाङ्गभुषणत्वात् । तत्सहितः । एकोऽर्थः । मे- रुरपि-तु शोभनाः खदा गह्वराणि यस्य स सुखदः । नवोत्कृष्टा मा लक्ष्मीर्यस्य तद्भा- वेनोपलक्षितः । सुवर्णमयी आकृतिर्यस्य । विविधानां वस्तूनां ग्रहो ग्रहणं यस्य च । न अगराजप्रथास्यक्तः पर्वतराज एव । द्वितीयोऽर्थः । बृहस्पतिः-नवमत्वेन सुखदः 'जीवः सप्तनवद्विपञ्चमगतः' इति । तथा सुवर्णा शोभनवर्णाकृतिर्यस्य तथाविधो विग्रहः संनिवेशो यस्य । भासमानाकृतित्वात् । 'बृहस्पतिर्भ्राजस्वं' इति श्रुतिः । विशिष्टों ग्रहो वा विग्रहः । नागराजस्य दन्तिनः प्रथंया त्यक्तः । गजवाहनत्वात् । प्रथया अति अक्तो वा सर्वोत्कर्षेण वर्तनात् । इति तृतीयोऽर्थः ॥ ३९ ॥ भवभव्य भवातीत तत्त्वतज्ज्ञ तमोहर । रंणे रक्त रसेनैहि हिताहिसहितार्थद ॥ ४०॥ दयादक्ष दहाघानि निन्द्यानि त्वं विरामय । यमायत्तं यतित्वाव वर वन्द्य वरेण्य माम् ॥ ११ ॥ द्वाभ्यां गदाबन्धः ।। युगलकम् ।। हे भवभव्य सर्वोत्कृष्ट । भवं संसारमतीत निर्मुक्त । तत्त्वेन परमार्थेन तज्ज्ञ सम्य- क्परमार्थज्ञ तय जानातीति तज्ज्ञ । तमोहर सर्वजनानामज्ञानध्वान्तघ्न । रणे विश्व- कण्टकोद्धरणार्थ रक्त हेवाकिन् । भैरवत्वात् । रसेन कृपाविशारद आदरेण एहि । हित- सर्वजनेस्या, अहिभ्यः शेषादिभ्यः, सहितमरुत्तादिभ्यो भक्तभ्योऽर्थद । दयायां दक्षः कुशल अघानि पापानि दह शान्ति नय। निन्द्यानि पापानि विरामय अधःकृतोरग यमस्यायत्तं मा मरणधर्मित्वान्मर्त्यानां यतित्वा प्रयत्नपूर्वं अव रक्ष । वर वन्द्य वरेण्य इत्यामन्त्रणपदानि ॥ ४० ॥ ४१ न तनुतां दधती तततोदिता तुदति नीतिनिधे निधने तनुम् । निधिदनाथ ततं ननु नूतनं नुतिधनं तदिदं निददानि ते ॥ ४२ ॥ तवर्गबन्धः ॥ हे निविदनाथ कुबेरस्य स्वामिन् , हे नीतिनिधे, तततोदिता तोदा रोगाः । तततो- दिता बहुलरोगिता निधनेऽन्तसमये तनुं देहं तुदति व्यथयति । यत्तस्तनुतां न दधती बहुलेयर्थः । ततोऽस्माद्धेत्तोरहं ते तुभ्यं नूतनमिदं इतिधनं स्तुतिरेव वित्त निददानि । नीतेर्विश्वस्थितिरूपाया निधे आस्पद । ततं विस्तीर्णम् । ननु संमुखीकरणे । द्रुतविल- म्बिताक्षराभ्यां तवर्गबन्धः ॥ ४२ ॥