पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । सुसुररससभाभा स्वस्वदादाववक्र- क्रममनुनुततत्त्वा त्वाततपप्रजाजाः । ननव वधधनानाञ्चञ्चला लामभव्य- व्यस सततममन्दान्दाससङ्गङ्गते ते ॥ ३७ । आवलिः मयि तनुमुचितां तां दर्शयस्येदृशीं या. रविजजविरणत्रा त्राणरक्तातिभाति । जय जय जगतस्त्वं तत्त्वतज्ज्ञोऽसि भासि- न्रसिक सदसदासस्ते भवे भर्ग भव्यः ।। ३८ ॥ एतस्य श्लोकस्य प्रथमार्धेन त्रिशूलबन्धः, द्वितीयार्धेन गदाबन्धः । मा- लिनीवृत्ताभ्यां युगलकम् ।। हे भगवन भर्ग, न (नव] नव्य आदि [भूत ] लाभभव्यव्यस्य लाभेन हेतुनोत्कृष्टो ब्यसो विशेषेणासनं त्यजनं यस्य हेतोः पदार्थानामनन्तफलदत्वात् । तथाविध । हे भा- सिन् भासनशील रसिक भक्त्तजनप्रिय, ईदृशीं तनुं मयि ते तव दास सङ्गं गते आशु त्वरितं दर्शयस्व । या तव तनुरेवंभूतातिभाति सातिशया शोभते । कथंभूताः । सुसुररससभाभ सुष्छु सुराणां रसा यस्यां तथाविधाया सभायामाभा यस्याः । आदावादावेव स्वस्वदा मरु- त्तादिभ्यो भक्तेभ्यः स्वमात्मीयं स्वं धनं ददातीति तथा । अवक्रक्रम कृत्वा अकौटिल्येन "अनु पश्चान्नुतं तत्त्वं यस्याः सा । तु पक्षान्तरे आतता विस्तीर्णा प्रकृष्ट प्रजा प्रप्रजा. सप्तर्षिप्रभृतिसकलनिर्माणं यस्यास्तथाविधा । स्वयं पुनरजा जन्मरहिता । तथा वधध- मानां हिंसाजीवनानामसुरादीनां चञ्चलास्थिरा । सततं सर्वकालममन्दा नित्योद्युक्ताम् । तां तनुमिति संबन्धः । तथा या च ते तनुः रविजस्य यमस्य ये जविनो वेगवन्तः । अर्थाद्भटाः । तैः सह यो रणस्ततस्त्रायते तथाविधा । अत एव सर्वेषां त्राणरक्ता । अत एव त्वं जगतां तत्त्वविषये तज्ज्ञोऽसि विचारनिपुणः । जय जय । सदसतोर्नित्यानि- त्ययोर्य आस आस्थारूपस्ते तव भवे संसारे भव्य उत्कृष्टः । सतः सत्त्वेन स्थितिर्भ - वता कल्पिता, असतोऽपि वपुष्पादेर्व्यंवधानायासत्वेन ! यंदाहुः- कस्तु भवतत्वा- न्यत्वेन नातिकामति इति । प्रमेयमनुरूपेण प्रमाणेन प्रमीयते प्रत्यक्षवत्प्रमाणमध्यपति- तत्वादसतोऽपि व्यवस्थानादिसिद्धेश्वरनिर्माणवैचित्र्यात् । अत्र युगलके एक आवलिः । द्वितीयश्लोकस्याद्यार्धेन त्रिशूलबन्धः। द्वितीयार्धेन च गदाबन्धः॥ ३४ ॥ ३८ सुखदोनवमत्वेन सुवर्णाकृतिविग्रहः । नागरागप्रथात्यक्तो गिरीशो जयतादसौ ॥ ३९ ॥ अर्थत्रयवाचकोऽयम् ।। .....