पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। हे भगवन् शिव, तवैव भूतिः असुहृद प्राणहृत् भवति । केषाम् । धर्मराजसुहृत्स- मानां यमसुहृत्सदृशानां तत्प्रियलोकानां तत्किंकराणां वा । कथंभूता समाना सह मानेन यूजया वर्तते या सा । पुनः किंविधा । निरस्तधनादराणां दूरीकृतधनाभिलाषाणां तत्त्व'- जुषां त्वदेकतानानां जनानां अराणामश्रिसमूहानां भवपाशरूपाणां निधनात्कर्तनाच्छु- भावहा शुभदा । युक्पादाद्यन्तयमकोऽयं श्लोकः ॥ ३३ ॥ भूयाद्भक्तिस्त्वय्युमाकान्त तीव्रासारा दक्षामोक्षादरा सा । नो चेन्नैषा जीयते कालसेना या कालिम्ना नित्यनिम्नालिकायाः ॥३४॥ युक्पादप्रतिलोमः॥ भगवन् उमाकान्त, त्वयि सा भक्तिर्मम तीब्रासारा अविच्छिन्ना भूयात् । पुनः किंभूतः । दक्षा निपुणा । पुनः किंभूताः। अमोघः सफलो मोक्षे आदरो यस्याम् । नो चेद्भक्तिस्तव स्यातू तर्ह्येषा कालसेना मृत्युचमूर्जन्ममरणादिरूपा न जीयते । केनापी- त्यर्थः । एषा कालसेना का । या कालिन्ना मलीमसत्वेन नित्यनिम्नोऽतिनीचोऽलिकायो भ्रमरकायो यस्याः सा । भ्रमरकायादप्यत्यन्तमलिनेत्यर्थः ॥ ३४ ॥ न नानान्नानि नूनं नो न ना नीनानना न नः । नानु नानेन नुन्नैना ननु नेनाननेन नौः ॥ ३५ ॥ एकाक्षरः दृष्टेन लभ्या भवता नयनानलसाधुना। मुक्तिरूपा भवाब्ध्यन्ता नयनानलसाधुना ।। ३६ ।। पादयमकम् ।। युग्मम् ।। नूनं निश्चये नोऽस्माकं नानानानि नानाविधानि अन्नानि न भवन्ति । यतः नीनाः नि- गर्त इनः स्वामी येषां ते नीनाः स्वामिरहिताः । अननाः अविद्यमाना अनाः आणा येषां ते अननाः । निष्प्राणा एवेत्यर्थः । नानुना इत्यादि । अनेन हेतुना अनु अविद्यमाना नौर्यस्मिन्कर्मणि तत् । अनु न भवति काका भवत्येवेत्यर्थः १. ना नरः स्वामी न भवति केषाम् । नः। ननु निश्चये। इनाननेन इनस्याननं मुर्ख यस्य स इनाननो लक्ष्मीवान् नेनाननो दरिद्रस्तेन नेनाननेन दरिद्रेणापि मुक्तिरूपा नौर्लभ्या । कदा । अधुना । केन हेतुना । भ- वता । कथंभूतेन दृष्टेन । पुनः कथंभूतेन । नयनानलसाधुना नयनानलेन साधुःप्रष्टास्याः(१) तेन । मुक्तिरूपा नौः कथंरूपा । भवाब्ध्यन्ता भवाब्धेरन्तो यस्याः सा ! पुनः कथंभूताः । नयनानलसानयने प्रापणे अर्थाद्भवोत्तारणे अनलसा सज्जा इति । मुक्तिरूपा नौः पुनः कथं- भूता। नुन्तैनाः नुनं नोदितमेनः पापं यया (युग्मम् ) इति भक्तजनं प्रति । आर्त्योक्तिः । धुना इदानीम् ) आद्य एकाक्षरः द्वितीयं पादयमकम् । इह शब्दपौनरुक्त्यभ्रान्तिर्भिन्न- लिङ्गत्वात्न ग्राह्या । माघकाव्यकिरातार्जुनीयादिकाव्येषु बहुष्वपि पदार्थानों पौनरूक्त्यं दृश्यते तत्र पूर्वांचार्यैः समर्थितम् । यथा--'यमकश्लेषचित्राणां नासिपदक्षोदः कार्यः इति । अस्य कवेः क्वचिद्पौनरूक्त्यादिचमत्कृतेः (१) । चित्रकाव्यस्य दुष्करत्वात् ॥ ३५ ॥ ३६ ॥ 1(अ.