पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । मरुमैरुरिर्मारोऽमरारामोऽरमोऽरिरः । मुरारिरामा रोरोऽरमुमारामी ममोरुराः ॥ २५ ॥ व्द्यक्षरः ।। मम मेरुः सर्वदेवताविश्रान्तिस्थानमपि मरुनिर्जलपायो देश इव' नावर्जकः । मारः कामोऽपि सर्वजनवल्लभोऽरिः शत्रुः । तथा अमराणां देवानामारामो विश्रान्तिप्रदो नन्द- नादिप्रदेशः सोऽपि अरमःशोभारहितः । अतएव अरिरः अरीन् रातीति असुखलाच्छत्रुद इव । मुरारेर्विष्णो रामा लक्ष्मीभगवती रोरो दारिद्यम् । अरमत्यर्थम् । उमारामी उमया सह योऽवश्यं रमते स पार्वतीवल्लभः स एव उरूराः महदुत्कृष्टं निधानभूतं धनम् ॥२५॥ विहाय सस्यसंपन्ना सेव्यः स्वामी शिवं भवेत् । येनाप्यो दिवि पन्थानो राजेनत्वं च तिष्ठति ॥ २६ ॥ अपशब्दाभासः ।। नोऽस्माकं सस्यसंपन्ना धान्यादिसमृद्धिमत्त्वं विहाय स्वामी विश्वेश्वरः सेवनीयः । येन हेतुना शिवं कल्याणं भवेत् । दिवि च यः पन्थाः सचाप्यः प्राप्यः । राजेनत्वं राज्ञां मध्ये इनत्त्वं प्रभुत्वं च तिष्ठति । अत्र विहासस्य, संपन्ना, शिवं, स्वामी, सेव्यः, पन्थानः, आप्या, राजेन, त्वं तिष्ठति इति सर्वेऽपि शब्दा अपशब्दा इवाभासन्ते अतोऽपशब्दा- भासोऽयम् । अर्थान्तरप्रतीतौ निर्दोषः ॥ २६ ॥ न भासते ते सभा न भाविताममता विभा। सता वदे देवतास ते मदेन नदेऽमते ॥ २७ ॥ सर्वतोभद्रः ।। भग्ना वयं भवमये नोद्धृताः पशवस्त्वया । यास्त्ववस्था रुजां भामामाभाजां रुद्र ता हर ॥ २८ ॥ परशुबन्धः ।। युगलकम् ॥ द्वयोष्टीका- हेभगवन् देवतास, देवतानां ब्रह्मविष्णुप्रभृतीनामासनं स्थितिः रक्षणं क्षेपणं विनाशो वा यस्मात् तत्संबोधनम् । ते तव सभा न न भासते । अपि तु सर्वोत्तमा भासते एव । किं विधा : भावितानां नन्दिप्रभृतीनां अममता निरहंकारता तया विभा दीप्तिर्यस्याम् । सता सत्यरूपेण ब्रह्मणा वदे । वदे इति 'संभासनोपसंभाषाज्ञानयत्नविम- त्युपमन्त्रणेषु वदः' इत्यात्मनेपदम् । ते तवं वयं मदेनाहंकारेण नदे भवमये अमते अनीप्सिते दुस्तरे तडाके भग्ना बुडिताः सन्तः पशव इत्यज्ञानपरत्वात् स्वया नोद्धृताः। हे रुद्र रुजां दुःखानां भामः क्रोधः अमा अलक्ष्मीस्तद्भाजां रुजां या अवस्थास्ता हर निवारय । इति युगलकम् । एकः सर्वतोभद्रो द्वितीयः परशुबन्धः ॥ २७ ॥ २८ ॥ कलिकालकलालीककेलिः कलकलाकुले । कालेऽलिकोकिलाकाले कोऽलं लोले कुले किल ॥ २९ ॥ व्द्यज्क्षरः