पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला णिकत्वादचिरार्चिषो विद्युतो रीतिमिता प्राप्ता कैः हेतुभूतैः । उरवो बहला ये चौरास्तथा रोराणि दारिद्याणि (तैः) उरुचौररोरैः । कैः । रतारैः रतस्य चित्तविश्रान्तेराराणि अरि- समूहा इव तैः । पुनः कथंभूतैः । चिरं या आर्तिस्तथा चित्तेतिश्चित्तबाधा च तया चि. तैर्व्याप्तैश्चिरार्तिचित्तेतिचितैः । आराद्दूरतः । त्र्यक्षरोऽयं श्लोकः ॥ १५ ॥ मुदात्तसारा धुसभासभाना सभासमानाङ्गमुदात्तसारा । विभावसुस्थान भव प्रभा ते भवप्रभाते रविभावसुस्थाः॥ १८॥ व्यावृत्त्यमकम् ॥ हे भगवन् भव, विभावसोर्नेत्राश्रयस्य वह्नेः स्थान आश्रय, भवप्रभाते संसारोदये सति ते तव संबन्धिनी प्रभा रविभाववत्सुस्था सामस्थ (स्वास्थ्य )वती । यतः मुदा हर्षेणात्तं सारं यस्याः मुदात्तसारा । धुसभायां देवसदसि समाना सह' मानेन पूजया वर्तते या। सभासमानानि रुचिराण्यङ्गानि यत्र तथाविधं कृत्वा उदात्तमुद्भटं बलं यस्याः।। व्यावृत्तयमकम् ॥१८॥ देहान्तकाले स्वरसेन पाहि यमात्प्रभो भास्वरलोचनाज । शमैकसर्वस्व सभूरिकामाः मां यच्छ देवेश जहीहि मां मा ॥ १९ ॥ वज्रबन्धः । भास्वरलोचन धामत्रयनेत्र, अज अनादे, शमैकसर्वस्व उपशमैकसाधन, त्वं मां देहान्तकाले मरणसमये स्वरसेन कृपया यमान्मृत्योः पाहि । तथा भूरयो बहला कामा मनोरथानि यस्यां सा तादृशीं सर्वाभीष्टप्रदां मां लक्ष्मी यच्छ वितर। मां च मा ज- हीहि मा परित्यजः ॥ वज्रबन्धः ॥ १९ ॥ तनुस्त्वदीया भगवन्स्मरारे रसासुखं मुक्तिमुखं सुसार। शुभावहा भक्तिपरायणानां सादान्तताकृत्तकृतान्तदासा ॥ २० ॥ हे भगवन् सुसार शोभनबल, स्मरारे, तव संबंधिनी तनुर्मूर्ती रसायो सुखं लक्षणया भूतलस्थानां जनानां सुखदायिनी। तथा मुक्तिसुखम् । भोगमोक्षप्रदेत्यर्थः । अत एव भ- क्तिपरायणानां शुभावहा । तथा सादस्यावसादस्यान्तताविच्छेदस्तेन हेतुना कृत्तादिछन्ना कृतान्तदासां यमभटा यया । त्वद्भक्तेभ्यस्ते निराशाः पलायन्ते नन्दिरुद्रवत् ॥ २०॥ स्थिरासुरापक्षपरा सुरास्थिमालावरासन्नसरावलामा । वादे हिता मन्त्रमताहिदेवातिभाविता नुत्यनुता विभाति ॥ २१ ॥ प्रतिलोमानुलोमपादः । युगलकम् ॥ त्वदीया तनुरित्यनेन पूर्वश्लोकस्थेनान्वयः त्वदीया तनुर्विभाति । कीदृशी । स्थिरा येऽसुरा अन्धकादयस्तेषामपक्षपरा प्रतिपक्षभूता। सुराणां ब्रह्मादीनां चास्थिमालादिभि-