पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईश्वरशतकम् । ततेतितति तातैता मम मा मामिमाममाः । ललल्लोलालिलीलालैरुरुरोराररैररम् ॥ १४ ॥ पादेकाक्षरः ।। यमवाराङ्गनाः कान्तैरवसादरतापदैः । समं त्रस्ता भवभक्तिरवसादरतापदैः ॥ १५ ॥ त्रिभिः श्लोकैर्वाक्यार्थतिलकम् ।। हे तात. पूज्य, तां यमवाराङ्गना मृत्युस्त्रियो भवद्भक्तिरवसादरतापदैः भवति विषये यानि भक्तिरवाणां सादरता तस्याः पदानि वाक्यानि तैः त्रस्ता भीताः कान्तैर्भर्तृभिः समं सह । कथंभूतैर्भर्तृभिः । अवसादरतापदैः अवसादं विनाश रान्ति ददति तापं च ददति तादृशैर्भतृभिः साकं त्रस्ता भीताः । भवदीयभक्तजनस्तुतिवाक्यं श्रुत्वैव त्रस्ता इत्यर्थः । इमां मम संबन्धिनीं मां लक्ष्मीं मा एतान प्राप्ताः माशब्दो निषेधार्थः । अमा अश्रीकाः । पुनः कथंभूताः । तरसा बलेन हि निश्चयेन नरकं श्रिताः । तता विस्तीर्णा या ईतिततय ईत्तीनां विघ्नानां ततयः समूहा यत्र तथाविधं कृत्वा कालमालाभरणा का- लस्य मा लक्ष्मीस्तल्लाभार्थं रणो यासां तथाविधाः । पुनः कथम् । नरकङ्कालमालाभर- णेहितरसाश्रिः नराणां कङ्कालमालाभिर्यान्याभरणानि तैराहितः रसाश्रिः रसपर्यन्तो यत्र तथा । पुनः कथंभूतैर्भर्तृभिः । ललल्लोलालिलीलालैः ललन्त उल्लसन्तो. लोलाश्च तेऽलय. स्तल्लीलो लान्ति कृष्णत्वात् ये तैः । उरूरोराररैः उरु बहुलं च तत् रोरं दारिद्र्यं उरूरोर- तथा अरीणां समूहं आरं उरूरोरं च आरं च तत् उरुरोरारं तं रान्ति ददति तथाविधैः अरमत्यर्थम् । अत्र वाक्यार्थतिलकेन प्रथमः समुद्गकयमकं काञ्चीगोमूत्रिकाबन्धौ च । द्वितीयः पादैकाक्षरः । तृतीयः पादयमकम् ॥ १३ ॥ १४ ॥ १५ ॥ प्रलापिनं मा रसेनाभयप्रद यमाकुलम् । आगत्य त्वरितं तीव्रप्रभावोचितविग्रहं ॥ १६ ॥ हे तीत्रप्रभ, तथा उचितविग्रह, अभयप्रद, त्वं मा कर्मभूतं अव रक्षः । केन । रसे- नादरेण ! मा कीदृशम् । यमाकुलं यमादाकुलम् । तथा प्रलपति तच्छील: प्रलापी तं प्रलापिनम् । त्वरितमागत्य । गूढकर्मक्रियोऽयं श्लोकः ॥ १६ ॥ चिरार्तिचित्तेतिचितैरिताराच्चराचराचारचरित्रचार । रैचारुता चित्रतराचिरार्चीरीतिं रतारैरुरुचौररोरैः ॥ १७ ॥ त्र्यक्षरः हे भगवन् चराचराचार चरित्रचार, चराचराणां जङ्गमस्थावराणां यदाचारचरित्रं तत्र चारश्चरणं यस्य तत्संबोधनम् । रैचारूतायां धनानां चारुता ऐश्वर्यं चित्रतरा साश्चर्या क्ष-