पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । भेदः । अथवा दासानि भृत्यानि अप्रधानानि यानि रक्षांति तानि दासरक्षांति । सह तैवर्तन्ते ये ते सदासरक्षसः तेषां सदासरक्षसाम् । सपरिवाराणामित्यर्थः । अथवा सह. दासैः रक्षोभिश्च वर्तन्ते ये तेषामिति । अत्र श्लोकेर्ग्यवर्णस्थरेफस्य विपर्ययात् त्र्य इति जायते तेन रेफविवर्तकोऽयम् ॥ १२ ॥ सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैति तस्तेति सूतिः मूतिस्ततोऽसि सा ॥ ९३ ॥ (यक्षरः) हे देवि, सा असि सा त्वं ततो हैतोः सूतिः शोभना ऊतिः रक्षा । अवतेः क्तिन्नि- पातनाद्रूपम् । यस्मात्ते भवत्याः संबन्धिन्याः स्तुतेः नुतेः हेतोः सतः साधोः सततं सदा संसत्सु सभामु सत्ता प्रशस्तता निर्मला आस्ते तिष्ठति । तथा तस्य सतस्तता अस्तिता एति विस्तीर्णा विद्यमानता आयाति । दीर्घमायुरारोग्यमैश्वर्यं च लभते आविर्भवतीति भावः । कीदृशी अस्तिता । तस्तेतिसूतिः तस्ता क्षपिता ईतीनों व्याधीनां सूतिः प्रसवो यस्याम् ।।९३ ।। स्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः । सदा त्वया सगन्धर्वं समिद्धमरिनुत्तितः ॥ ९ ॥ (गोमूत्रिकाबन्धोऽयम्) हे देवि, मलनुत् आवरणनिवारिणि, त्वदाज्ञया भवच्छासनेन जगत्सर्वं त्रैलोक्यं स. मग्रं (त्रैलोक्य) ज्ञानशक्तेरिच्छाशक्त्यात्मकं भवतीति भावः । यतो यस्मात्कारणादरिनु त्तितः शत्रुप्रेरणाद्विपक्षनाशाद्धेतोः त्वया भवत्या समिद्धं संलब्धज्ञानं सगन्धर्वं संदेवकु- शीलवमेतज्जगद्भासितं प्रकाशितम् । मलं हे भासों विपक्षं तं च त्वं तुदसि । प्रस्तारोऽस्य प्राग्वतः। ९४॥ यतो याति ततोऽत्येति यया तां तायतां यतैः । मातामितोत्तमतमा तमोतीतां. भतिं मम ॥ ९५ ।। (श्लोकाध व्यक्षरम्) हे देवि, मतिं बुद्धि सम तायतां मे विस्तार्यताम् । कीदृशीम् । तमोत्तीतां विगतत- मस्काम् । यथा मत्या यतो याति यतो निवर्तते ततोऽत्येति ततो विनश्यत इति भावः कीदृशी मतिः ।. माता जननी । तथा अमिता. अपरिच्छिन्ना । उत्तमत्तमा प्रकृष्टा ज्ञानमयी । एते षोडशश्लोकाश्चक्रे षोडशाराः । एत एव च पुनरनुलोमतो लिखिता अन्ये षोडश एवं द्वात्रिंशदराः ॥ २५ ॥ महत्तां त्वं श्रिता दासजनं मोहच्छिदा बस । यच्छुद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥ ९६ ॥ द्विप्रकारो दासजनः एको निवृत्तपापावरणः अपरः पापावृतः । इत्र मोहच्छित् अज्ञा-