पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला संवादिसारसंपत्तीसदागोरिजयेसुदे। तवसत्तीरदे सन्तु संसारे सुसमानदे ॥ ७८ ॥ (संस्कृतसूरसेनभाषाश्लेषः ।। तत्र संस्कृतशब्दार्थस्तावत्-हे देवि, असुदे प्राणदायिनि, तव संबन्धिन्यौ द्वे सत्ते। भावावित्यर्थः । तत्रैका विद्यमानता अपरा उज्ज्वलता ते. सत्ते सद्विद्यमानमागोऽपराधोयेषां तेषां सागसां सापराधानामरीणां शत्रूणां जयेऽमिभवे पराभवाविषये संवादिसारसंपत्ती संवा- दिनी ज्ञायमाना सारस्य बलस्य संपत्तिः समृद्धिर्ययोस्ते सत्ते । सापराधा अरयो यथा जनेन जीयन्ते तथा तव संनिधानमौज्वल्यं च लक्ष्यत इत्यर्थः । तथा ते सत्ते द्वे भवसागरं सत्तीरदे शोभनपारप्रदे। त्वयि सत्यां त्वत्प्रभावेण वा संसारसागरादुत्तीर्यत इति भावः। तथा सुसमा- नमपभ्रंशमानं ददतः । अथवा सुसमं ब्रह्मादिस्तम्बपर्यन्तं चतुर्दशविधे भूतसर्गे नित्योदित- तया समत्वेन साधारणत्वेनावस्थितं शब्दं शब्दब्रह्म ददतः। तच्च संसारसागरसमु- त्तरणप्लवम्॥ तथा च बाहृची श्रुतिः 'ऋचो अक्षरे परमें व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तं न वेद किमृचा करिष्यति य एतद्विदुस्त इमे समासते॥' इति । सूरसेनभाषार्थोऽधुना--हे गोरि हे गौरि, जयेसु जगत्सु त्रैलोक्यं दे ते तदसती तपःप्रभावः सदा सर्वकालं संवादिसारसं- पत्ती शम्बातिसारसंप्राप्तिः शम्बवद्वज्रवदतिसारातिढा संप्राप्तिर्लाभो यस्याः सा शम्बाति- सारसंप्राप्तिः । यदुक्तममरसिंहेन--'ह्रादिनीं वजमस्त्री यात्कुलिशं मिदुरं पविः । शत- कोटिः स्वरूः शम्बो दम्भोलिरशनिर्द्वयोः ।। इति । अनपायिनी त्वत्तपःशक्त्तिरित्यर्थः कीदृशी गौरि । सत्ती रदे सत्त्वे रते चेतोविकारजयासक्ते । कीदृशे सत्त्वे । संसारे श्रेयःप्र- धाने । तथा हे गौरि, सुसमानदे. सुशमानते सुशमैः सुष्टुचित्तोद्रेकजयिभिरानते प्रणते मुमुक्षवस्त्रां प्रणमन्तीति भावः। यतश्चित्तजय एव मोक्षः। यदुक्तम्-चित्तमेव हि सं. सारं रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥' इति ॥ ७८ ॥ आगममणिसुदमहिमसमसंमदकृदपरजस्सु किर सविभयवदितो समय उज्जलभावसहस्तु ॥ ७९ ॥ संस्कृतापभ्रंशश्लेषः । द्विपथकाख्यं वृत्तम् । इहापि- संस्कृतशब्दार्थस्तावत्प्रकृतत्वात-हे. देवि, अपरजःसु अपगतरजस्केषु गलितमोहेषु नृषु इतोऽस्मात्संसारादसमयेऽनवसरे आगममणिसुदमहिः मसमसंमदकृत् आगमाः शास्त्राणि त एव प्रकाशकत्वान्मणय इव मणयः तथा शोभनो यो दमश्चित्तोपशमः सः एव निर्वापकस्वाद्धिमं तत्संबन्धी योऽसौ संमोऽनाकुलः संभदो. हर्षस्तं कृन्तति छिनत्ति यत्तत्किर उत्क्षिप । अज्ञानं विनाशयेति वाक्यार्थः । कथम् सादिभयवत् संवों यज्ञोऽस्यास्तीति सवी यायजूकस्तेषां भयवद्भीतिवत् । यज्वनां यथा व जनता न हाशयेत्यर्थः । तथाकीदृशेषु नृषु । उज्जलभावसहस्सु उद्गतो