पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । त्चमागधसूरसेनापभ्रंशात्मिकाः षडपि भाषा अत्र समाविष्टा यदा ददा भाषाषट्कस- मावेशोऽयम् । षण्णामपि भाषाणां साधारणा (१) न मिद्यन्त इति वाक्यार्थः ।। ७४ ।। दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि । अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ।। ७५ हे देवि । तव भवत्याः संबन्धि चरितमाचारश्चित्रमाश्रयंप्रदम् । यतः हे मातर्जननि, दुर्गापि कात्यायन्यपि अविदितपरमार्थापि भक्त्या सेच्या सुलभासि । तथा भवानुकूलापि हराचरक्तापि भव क्षिणोषि संसारं निहन्ति । अपि च ध्येयापि चिन्तनीयापि सती अध्ये, यतां पठनीयत्वं सदैव सर्वकालं याति गच्छसि । अपिरिह संभावनायाम् । या दुर्गा दु- र्गमा सा सुलभा, या भवानुकूला सा भवघ्नी, या ध्येया सा अध्येयतां यातीत्यपिश- ब्देन विरुद्धवदाभासनाविरोधाभासोऽयम् ॥ ७५ ॥ महदेसुरसंधम्मे तमवसमासङ्गमागमाहरणे । हरबहुसरणं तं चित्तमोहमक्सर उमे सहसा ।। ७६ ॥ (संस्कृतमहाराष्ट्रभाषाश्लेषः ।) प्रकृतत्वात्संस्कृतशब्दार्थस्तावत्--हे देवि, महदे उत्सवदायिनि मे मम सुरसंधं सुरा देवाः संघिरवधिर्यस्य तम् आगमाहरणे शास्त्रार्जने समासङ्गं सम्यगासक्तिश्रद्धामव रक्ष शास्त्रासक्तिर्देवैरपि न परित्यक्तेति भावः । यदुक्तम्---तस्माच्छास्त्रं प्रमाणम ते कार्याका र्यव्यवस्थितौ इति । तथा हे उमे हे अगजे, हसनं हसः सह हसेन वर्तत. इति सहसा सामोदा सती अवसरे प्रसङ्गे बहुसरणमत्यन्तव्यापार तं चित्तमोहं चेतोजाड्यं हर वि- नाशय । कविवैचित्र्यरचितमहाराष्ट्रभाषाशब्दार्थोऽधुना-हे हरबहु शिववधु, धम्मे धर्मे पुण्ये रसं रागं देसु देहि ददस्व विधत्स्य । तथा णे नः अस्माकं गमागमा संसारात् तमवसं तमोवशां अविद्याप्रपञ्चायत्तां आसं आशां हर छिन्धि विनाशय । मोक्षं देही- त्यर्थः । मह मम तं त्वं सरणं शरणं परायणम् । सहसा झगित्येव चित्तमोहं, मानसम- ज्ञानं चित्तमोहं वा चित्रं नानाविधं मोहं मोघं विफलमर्थात्संसारं अवसरउ अपसरतु प्रयातु इतिक्रियात्रितयेन द्वितीयभाषाशब्दार्थः ॥ ७६ ॥ वन्द्या प्रभातसंध्येव सूर्यालोकप्रवर्तिनी । निवर्तयसि देवि त्वं महामोहमयीं निशाम् ॥ ७७ ।। देवि, त्वं वन्द्या प्रणम्या । सूरीणी विदुषामालोकप्रवर्तिनी प्रकाशदायिनी ज्ञानदा. सती महामोहमयीमज्ञानस्वरूपां निशामविद्यां निवर्तयति द्रावयति । अत एव प्रभात- संध्येव उषःप्रत्यूषयोरन्तरं यथा । सा हि संध्या सर्वेषां वन्द्या भवति तथा सूर्यालोक- प्रवर्तिनी महान्धकारां निशां निवर्तयति ॥ ७ ॥ नवगु० SE