पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् . विभावनाकुला त्वयि क्रमेण देवि भावना । वपुष्पतिस्थिरेतरे नितान्तमेव पुष्यति ॥ ६० ॥ है देवि, त्वयि विभौ व्यापिन्यां त्वद्विषये क्रमेण यथोक्तविधिना अनाकुला स्थिरा नि- श्वला भावना भक्तिः अतिस्थिरेतरे अतिशयेन स्थिरादितरे विनश्वरे वपुषि शरीरे निता- न्तमेवात्यर्थ पुष्यति पुष्टा । प्रकृष्टेत्यर्थः । अस्थिरेऽस्मिन्ससारे त्वद्भक्तिरेव सारमित्यर्थः६० ।। महोऽदयानामवधी रणेन महोदयानामवधीरणेन । महोदयानामव धीरणेनमहोदयानामवधीरणेन ।। ६१ ।। (पादाभ्यासयमकम् ।) न दयन्ते रक्षन्तीत्यदया हिंसास्तेषामदयानां महस्तेजः रणेन संग्रामेण या त्वमहो आश्चर्य दयानामवधीरणेन तिरस्कारेणावधीः निहतवती । निर्दयतया हिंस्रात्वं समरं महोदयानामुत्सवोत्पत्तीनामवधीरणेनादधिक्षपणेन निरवधिसुखोत्पादनेन महोदया म- हान्तो बृहन्त ये उदया अयो ज्ञानं दैवमनुकूलं वा । उद्गतश्चासाच्य उदयः । महान्त उदया येषां तेषां धोरणेनं धीरयतीति धीरणं धैर्यकर्तारमिनमीश्वरं प्रभुभव रक्षस्व । महाज्ञानानां धैर्यकर्तारं प्रभुं पालयेति यावत् ॥६.६।। न मज्जनेन तीर्थानां तदिह प्राप्यते शुभम् नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ॥ १२ ॥ हे अम्बिके मातः, तद भवत्याः संबन्धिनां तीर्थानामागमानां सेवया समाश्रयणेन. अमज्जनेन प्रणतजनेन यच्छुभं फलं श्रेयः प्राप्यते लभ्यते तत्तीर्थानामृषिसे वितजलाना मज्जनेन न प्राप्यते ॥ ६२॥ प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् । त्वत्प्रसादाज्जनः सारभारतीव्रतमेत्ययम् ॥ ६३ ॥ हे देवि, अयं जनो लोकस्त्वत्प्रसादात्वदीयेन कारणेन सारभारतीव्रतं सारा प्रधाना चासौ भारती वाक् तद्गतं तत्परतामेति प्राप्नोति । पश्यन्तीस्वरूपं लभत इत्यर्थः । वा क्त्रित्तये हि प्रधाना पश्यन्ती। तथा चोक्तम्-- अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी । कस्मिन्समये । मोहे ज्ञानेऽत्ययं विनाशं प्रयाति गच्छति सति । कीदृशे मोहे । निःसारभारतीव्रतमे निःसारस्य दुर्बलस्य यथा भार आयास हेतुस्तद्वत्तीव्रतमे दृढतमे । अविषयायासद इत्यर्थः ।। शास्त्रप्रभावहासिताः सतां या निर्मला गिरः शास्त्रप्रभावहसितास्त्वमम्ब तिमिरच्छिदः ।। ६४ ॥ हे अम्ब जननि, याः सतां साधूनां सूरीणां संबन्धिन्यः शास्त्रप्रभावेण पदवाक्यप्रमा-