पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । त्वद्भक्तिभावितधियो जगतामन्त्र ये त्रये । जन्मवत्तामहं मन्ये तेषामेवानृणां नृणाम् ॥ ५१ ॥ (विरोधाभासः) हे देवि, ये नरास्त्वद्भक्तिभावितधियस्त्वत्सेवाधिवासितधिषणा अत्रास्मिञ्जगति ज- गतां विष्टपानां त्रये त्रैलोक्ये ये सन्ति तेषामेव जन्मवत्तां सजन्मलमनृणां विनष्टऋण- त्रयामहं मन्ये । अस्मिजगति ऋषिपितृदेवानां ब्रह्मचर्य प्रजायज्ञैर्र्यदानृण्यं तद्देवीभक्त्या भवतीति भावः । अत्रये त्रये, अनृणां नृणां इति विरोधाभासित्वम् ॥ ५१ ॥ जगतः सातिरेका त्वं गतिरस्य स्थिराधिका । तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥ ५२ ।। (अर्धभ्रमोऽयम्) हे देवि, त्वमस्य जगतस्त्रैलोक्यस्य सतिरेका सातिशया गतिः परायणम् । शरण- मित्यर्थः । कीदृशी । स्थिरानपायिनी । अथाधिका सर्वेषां गरीयसीति भावः । तथात्रा- स्मिञ्जगति असतारा सती अरेर्मोहात्तरति । सह तारेण वर्तत इति सत्तारा । न सतारा असतारा । अनायासेन मोह नाशयसीत्यर्थः । कथम् । अत्रोसरसस्थिति कृत्वा । त्रास- रसे अभिनिवेशे स्थितिः स्थानं न विद्यते यस्मिन् । सर्वतोभद्रापेक्षयार्धभ्रमणादर्ध- भ्रमः कथ्यते ॥५२॥ त्वन्नामस्मरणादेव न लक्ष्मीश्चपलायते सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥ ५३ ।। हे पार्वति गिरिजे, त्वन्नामस्मरणाद्धावत्कसंज्ञाचिन्तनादेव लक्ष्मी श्रीर्न चपलायते चपलत्वं नाचरति । न चलतीत्यर्थः । तथा क्षिप्रं त्वरितं सर्वतो दशदिकं सर्वपदार्थे भ्योऽलक्ष्मीदौर्भाग्यं पलागते दूरीभवति ।। ५३ ॥ जयन्ति भक्ता वित्तेशसमरायस्तवाहवे । तुभ्यं नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥ ५४ ।। हे देवि, तव भवत्याः संबन्धिनो भक्ताः सेवका आहवे सङ्ग्रामे जयन्ति सर्वोत्क- र्षेण वर्तन्ते । परानमिभूयेत्यर्थः । कीदृशा भक्ताः । वित्तेशेन वैश्रवणेन समस्तुल्यो र धनं येषां ते वित्तेशसमरायः । तस्मातुभ्यं भवत्यै नमः । कीदृशे । त्रयाणां लोकानां समाहारत्रिलोकी तदर्थं त्रिलोकीरक्षणार्थं यः समरो ययुद्धं तत्रायस्ता आ समन्तात्स- यत्ना व्यापृता बाहवो भुजा यस्या इति ॥ ५४ ॥ सत्त्वं सम्यक्त्वनन्मील्य हृदि भासि विराजसे द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ।। ५५ ।। (पुनरुक्तवदाभास)