पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । दीयधनुषश्च संवन्धी क्रेंकारोऽपि ध्वनिरप्यरीणामरातीनां तानवं क्षयं न न विदधे अपि तु चक्रे। अपरं या तारा प्रकाशरूपिणी विहायसा आकाशेन प्रयाता गता सती. कृष्णो भगवान्वासुदेवस्तव भक्तः हन्तां हिंसतु इत्यनेन प्रकारेण कंसाख्यं दैत्यमाहावो- चत्स्म । कथमित्याह-- परमाया विहाय द्विषत्कुसृतीः परित्यज्य अतिबलेन बाहुना. समा हतारांतिना निहतशत्रुणा बलेन भगवता संकर्षणाख्येन भ्रात्रा साकं सह । तथा या च भद्रकाली कात्यायनी समरेषु युद्धेष्वनेको बहुधा भाति शोभते । यया च देव्या नतया प्रणतया जनता जनसमूह उज्ज्वलविवेकशोमा प्रकृष्टज्ञानप्रभा सती अतिभद्रका- लीनतया अत्यर्थमङ्गल्यसंपृक्ततया हेतुभूतया प्रशस्तया देवी भातीत्यर्थः । ख्याति प्रका- शते व्यक्तीभवतः (१) नमत' इति संबन्धः ॥ ४१.१.४२ ॥ ४३ ।। तां स्मरत या स्मृतैव हि मानवतामरसमानता राति बलात् । यत्प्रणतं श्रीः श्रयते मानवतामरसमानताराति बलात् ।। ४४ ॥ तो देवी स्मरत चिन्तयत.। हि यस्माद्या. मानवता ज्ञानिना स्मृतैव ध्यातैव सती अमरसमानता देवतुल्यत्वानि अमृतवादीनि राति ददाति । तथा यत्प्रणतं यस्याः प्रह्णं मानवतामरसं नरनलिनं आनतारातिबलात् आसमन्तान्नतं बन्धुरकंधरं यदरातिबलं तत्प- रित्यज्य इति ल्यब्लोपे कर्मणि पञ्चमी तस्मादेत्य श्रीः (बलात् ) श्रयते सेवते ।। ४४.५. अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या। अनवरागसमुद्भवदेह तामबनतोऽस्मि जगतंप्रियतां सतीम् ॥ ४५ ॥ तां सती सतीसंज्ञां साध्वीं वा अवनतोऽस्मि अहं प्रणतः । कीदृशीम् । या अनवरः सर्वोत्कृष्टो योऽसावगः पर्वतस्तत्समुद्भवदेहतां तज्जातशरीरत्वमुपगता जगत्प्रियतां चं प्राप्ता सती गिरिशेन महादेवेन इहास्मिज्जगति अनवरागसमुत् अनवेन चिरंतनेन रागेण प्रेम्णा समुत् सहर्षा ददृशे दृष्टा । तथा च कालिदासः--'सती सतीयोगविसृष्टदेहा' इति तथा भवदा भवं संसार द्यति खण्डयति ॥ ४५ ॥ मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना 'नुन्नेनोनमने निमानममुना नो नाम नानानुमे । मौनेनामममाननिम्नमननान्नानामिनानूनिमे मुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ।। ४६ ॥ (व्द्यक्षरः) हे नुन्नेनोनमने देवि, नुन प्रेरितं यदेनः पापं तदेव नमनं प्रणतिर्यस्याः । पापघा- तिनी यस्याः सेवेत्यर्थः । तामाहूय तुभ्यमित्यर्थादभ्यूह्यते तेन हे देवि, तुभ्यं नमः । चयं वां प्रणमाम इति भावः । तथा हे देवि, मेना हिमवन्महिला उन्मना. सोत्कण्ठा सती अनेन तावकेन उमानाम्ना उमेति संज्ञया नूनं निश्चितं माननं पूजनं मेने जज्ञे वु-