पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२. काव्यमाला। सायासायास्त्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा स्वैरं स्वैरंशसगैंर्गहनतममहामोहहार्दं हरन्ती । शस्याशस्यादधाना सकलमभिहितं भक्तिभाजः स्मृतैव स्तादस्तादभ्रदोषा द्विषदुपशमनी सर्वतः पार्वती वः ॥ ३९ ॥ पार्वती वो युष्माकं सर्वतः समस्तादिग्देशकाद्विषदुपशमनी शत्रुमर्दिनी स्ताद्भवतात् । अस्ताः क्षिप्ता विनाशिता अदभ्रा महान्तो दोघा मूर्तामूर्तः *तथा सायासायाः सोप-- तापायास्त्रिलोक्या भूर्भुवःस्वर्लक्षणायाः शरणमभयपदस्थानम् । अन्यच्चाकरुणं निर्दय कृत्वा क्षुण्णा विनाशिता दैत्यप्रवीरा असुरप्रधाना यया सा । अपि च स्वैर्निजैरंशसर्गैरव- यवप्रादुर्भावैः स्वरं शनैः शनैः कृत्वा गहनतमो दुर्भेदो योऽसौ महान्हार्दो हृदयभवो मो- होऽविवेकस्तं हरन्ती निवारयन्ती । अन्यत्र भक्तिभाजः सेवासक्तपुंसः शस्याशस्य सम्य- वस्तुत्याभिलाषस्य सतः स्मृतैचध्यातमात्रैव सकलमशेषमभिमतमादधाना पोषयन्ती ३१ सुरसुरचितचितनवनवभवभवनानादरादरायेये । लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥ ४ ॥ (निरन्तरावलियमकम्) हे देवि, सुरैर्देवैः सुरचितेन शोभनरचनया चिता दृष्टाः नवा अनन्यकृता नवाः स्तवा यस्याः सा सुरसुरचितन्वितनवनवा । तथा भवभवाः संसारसंभूतः ये नानादरा बहुप्रकारभयानि तन्निवृत्त्यर्थमादरेणौत्सुक्येन या आयेया आगन्तव्या । या भवभव- मानादरादरायेया यातव्या । प्रथमार्धश्लोकेन (नु) संधानम् । ते तब चरणौ पादौ लयो लीला विलासरतस्य लयश्चरणं गमनं यथोस्तौ चरणौ नतेन नमनेन नमामि न मामि न पर्याप्तो भवामि । तृप्तिं न गच्छामीत्यर्थः ॥ ४० ॥ या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् । विदधे यच्चापस्य न च क्रेंकारोऽपि तानवं नारीणाम् ॥ ४१ ॥ या हन्तां च प्रयाता विहायसा कंसमाह तारातिबलेन । कृष्णस्तव परमाया विहाय साकं समाहतारातिबलेन ।। ४२॥ तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया । ख्याति यया जनतोज्ज्वलविवेकशीभातिभद्रकालीनतया ॥ ४३ ॥ (कलापकम्) तां देवी नमत नमस्कुरुत या स्मरभिदा मदनहस्त्रा भर्त्रा हरेणाङ्कारोपिता उस्त- ङ्गमारोहिंता सती नारीणां स्त्रीणां नवमपूर्व विस्मयमाश्चर्य चक्रे । तथा यच्चापस्य य-