पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । तरुणारुणप्रतिमरम्यरुचिं कुसुमेषुचापसृणिपाशकराम् । त्रिगुणात्परां त्रिगुणरूपमयीं भवतीमहर्निशमहं कलये ॥ ६९ ॥ इति निजमतिवैभवानुरूपामकृत कविर्भुवि सामराजनामा । समयिजनमुदेऽम्बिकासपर्याममृतसुखात्मकताविकासपर्याम् ॥ ७० ॥ इति श्रीसत्यानन्दनाथापरनामधेयसामराजदीक्षितविरचिते पूजारत्ने स्थितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् ।

श्रीशंकराचार्यविरचितं चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । उषसि मागधमङ्गलगायनैर्झटिति जागृहि जागृहि जागृहि । अतिकृपार्द्रकटाक्षनिरीक्षणैर्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयगृहमध्यमेहि मातर्मयि कृपया हि समर्चनं ग्रहीतुम् ॥ २ ॥ कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम् । भगवति तव संनिवासहेतोर्मणिमयमन्दिरमेतदर्पयामि ॥३॥ तपनीयमयी सुतूलिकाकमनीया मृदुलोत्तरच्छदा। नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥ कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मि- न्नुपविश पदयुग्मं हेमपीठे निधेहि ॥ ५ ॥ मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् । कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥ ६ ॥ १. अस्य स्तोत्रस्य पुस्तकद्वयं समासादितम् . तत्रैकं क-चिंह्नितं जयपुरराजगुरुश्री- नारायणपर्वणीकराणां नवपत्रात्मकम् अपरं ख चिह्नितं चातुर्वैदिकोपाख्यगौडराम चन्द्रशर्मतनूजनाथूनारायणशर्मणां चतुर्दशपत्रात्मकं समासादितम्. २ 'हेमपूर्णकुम्भ' क. ३. 'मण्डपमेतदेहि' ख. ४. 'चुम्बि' ख.