पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। इदं को जानीते क्षणमपि हरार्धे प्रजपतां हंसार्धे व्यालम्ब्य प्रतिफलति हंसः परिणतिः ।। ६२ ।। जननि निभृतं यत्ते रूपं वदत्यतिशाश्वतं लसतु हृदि नो दीपप्रायः स कोऽपि हसात्मकः स्मरणविषये येन स्वैरं स्वरेण विजृम्भता त्रिपुरमथनः प्रापेशत्वं तदात्मकतां गतः ।। ६३ ।। ऋचामाचार्यासि स्तुतिशतजुषां चापि यजुषां महाधाम्नां साम्नां प्रथितयशसोऽथर्वशिरसः । हरिब्रह्मेशाद्याः प्रपदकिरणोत्तंसमुकुटा- स्तवातस्त्वां स्तोतुं जनजननि को वा प्रभवतुः॥ ६४ ॥ त्रस्यत्खञ्जनगञ्जनव्यसनिनीमुन्माथिनीं भाद्यतो जीवंजीवकुलस्य भृङ्गपटलीन्यक्कारबद्धव्रताम् । रङ्कूच्छङ्कुविधायिनी च नलिनश्रीगर्वसर्वेकषां कारुण्यामृतवर्षिणीं मयि शिवे दृष्टिं मनाङ्मोटय ।। ६५ ।। रिङ्गद्भृङ्गकदम्बडम्बरपरिप्वङ्गप्रसङ्गाकुल- प्रत्यूषस्फुरमाणपङ्कजवनीसौभाग्यसर्वंकषः । दृक्कोणः करुणाङ्कुराङ्किततनुः कोऽप्यद्रिजे मद्वपु:- पान्थत्वे तरसा भवेत्परिकरी धन्यस्तदा स्यां न किम् ॥६६॥ समुद्यन्मार्तण्डप्रसृमरकरालीमसृणया पदद्वन्द्वानन्दप्रणयिजनरिङ्गत्करुणया। ललल्लीलाभाजा परशिवपरिष्वङ्गपरया धिया चेतः कालं नय गतनय त्वं क्षणमपि ।। ६७ ।। वेदैरङ्घ्रिभिरुज्ज्वलोपनिषदां वृन्दैरवःकल्पितैः शास्त्राद्यैरपि तिर्यगूर्ध्वकलितैरोंकारमार्गेण च । विष्वङ्मात्रनिबन्धनैः परिचितेऽस्मिन्वाङ्मये पञ्जरे कीरी काचन चेतनैकविभवा चित्ते चकास्ताच्चिरम् ॥ ६८ ।।