पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । अथ कृतपरिवाराभ्यर्चनं ते समर्प्य स्तुतिभिरनुपमाभिः पावये स्वां रसज्ञाम् । यदपि न रविरश्मिः स्वोपकारं विधत्ते तदपि कमलमालाम्लानहानिं तनोति ॥ ५६ ।। श्रवसि विशति यस्य वन्मनोरेकवर्णः सकृदपि विधियोगादम्बिके मानवस्य । लघुतरफलमेतद्यत्रिवर्गाश्रयत्वं परिचरति पुरस्तात्पूरुषार्थश्चतुर्थः ॥ ५७ ॥ हृदयकमलमध्ये त्वां समानीय मातः पवनभरितनाडीरन्ध्रमुद्राविधिज्ञाः । दधति परमधन्याः कुण्डलीस्पर्शहृष्य- च्छशिगलदमृतौघप्लावजन्यप्रमोदम् ॥ ५८ ॥ वदति विधिकलत्रं त्वां शिवे कोऽपि कश्चि- त्रिपुरमथनपुण्यं श्रीपतेः कोऽपि भाग्यम् । प्रकृतिमिति परेऽपि प्रौढविज्ञानमेके निखिलनिगममूलं मन्महे बोधमेव ॥ ५९ ।। कदा तव पदाम्बुजस्मरणजातरोमोदमः सदाशिवमदालसे जननि मातरित्युद्गिरन् । निलीनकरणक्रियस्त्रिदशगर्वसर्वेकषा- मखर्वपदवीं भजे हरिहरादिभिर्भाविताम् ॥ ६० ॥ त्वदीयमुखचन्दिरे चलितलोचनेन्दिन्दिरे प्रसादकुलमन्दिरे स्थगितपद्मचन्द्रेन्दिरे । प्रभापटलतन्तुरे ललितहावकेलीपुरे हृतस्मरहरान्तरे धृतमतिर्भवं संतरे ।। ६१ ॥ त्वदीयं यद्रूपं जनजननि बिन्दुत्रययुतं स्मरन्नन्तर्योगात्रिदिवपतितामाय सुरपः ।