पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। नीला नाभौ कण्ठे शशिमा हृतपापं वर्षस्यमृतं बिन्दावानन्दावापम् ॥ ४२ ॥ त्वत्पदपद्मे चित्तं त्रिपुरे मे रमतां तत्रैव प्रतिवेलं भौलिर्मे नमताम् । यातायातक्लेशः सद्यः संशमतां याचे भूयो भूयो भवता मे भवताम् ॥ ५० ॥ नृत्यति गायति सुरसं सुरनारीवृन्दे करतालीदानोत्सुकसुरविततानन्दे । नीराजनकाले तव मुनिजननुतवेदे चरणानतसम्राजः परिहृतभवखेदे ।। ५१ ॥ मिलदलिपटलीभिः केवलं घ्रातपूर्वः स्फुटितकुसुमगर्भः स्वैरसंचारिणीभिः । उपहितपटवासः पुष्पधूलीकदम्बैः प्रभवतु पदपाती देवि पुष्पाञ्जलिस्ते ।। ५२ ।। सकृदपि बिनताङ्घ्रिस्त्वां परिक्रम्य मात- र्भवति मखफलेषु क्षीणलोभं मनो नः । सरसिजमकरन्दास्वादतृप्तो मिलिन्दः क्वचिदपि पिचुमन्दे चित्तवृत्ति तनोतिं ॥ ५३ ॥ जननि खलकपोतन्यायतः पातुकाना- मधिपदकमलं ते मन्दवृन्दारकाणाम् । भवतु नयनयोस्ते गोचरः क्वानतिर्मे न लसति पुनरुच्चैः स्वैरमुद्रीविका चेत् ॥ ५४॥ विमलमुकुरबिम्बं पुण्डरीकातपत्रं शिशिरकरसमाने चामरे चामरेशि । करितुरगकदम्बं शक्तिभिर्दिश्यमानं जनय सफलमञ्चल्लोचनालोचनाभिः ॥ ५५ ॥ १. शिवता.