पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् ।। माणिक्योज्ज्वलचत्वरसिंहासनशोभे शवपञ्चकमञ्चेऽञ्चितजनलोचनलोभे । सुश्वेतातपवारणचलचामरदम्भे ध्याये भवतीमनिशं कृतजगदारम्भे ॥ ४३ ॥ दलितजपाकुसुमोपमवसनच्छन्नाङ्गीं तरुणारुणकरुणप्रदकिरणावलिभङ्गीम् । दधतीं रचनां नयने यमुनातारङ्गीं कलयन्ती कुचकोशे सुषमां नारङ्गीम् ।। ४४ ॥ शरपञ्चकबाणासनसृणिपाशोल्लसितां मलयानिलपरिवाददमुखपद्मश्वसिताम् । बालामृतकरमण्डितचूडातटमहितां ज्योतिस्त्रितयालंकृतनयनत्रयसहिताम् ॥ ४५ ॥ पशुपतियन्त्रणपटुतररोमावलियूपां मन्मथतस्करगुप्तिक्षमनाभीकूपाम् प्रपदालम्बिशिखामणिवृन्दारकभूपां कमलासनरिहरमुखचिन्त्यामितरूपाम् ॥ ४६॥ काली बगला बाला तारा भुवनेशी वाराही मातङ्गी कमला वचनेशी। छिन्ना दुर्गा गङ्गा काशी कामेशी त्वत्तो नान्यत्किंचित्त्वं चिद्रसपेशी ॥ ४७॥ त्वं भूमिस्त्वं सलिलं त्वं तेजः प्रबलं त्वं वायुस्त्वं व्योम त्वं चित्तं विमलम् । त्वं जीवस्त्वं चेशस्त्वं ब्रह्मास्यमलं सत्यानृतयोरन्यत्त्वत्तः किं सकलम् ॥ ४८ ॥ कुलकुण्डे त्वं कुरुषे शयने प्रस्वायं स्वाधिष्ठाने मिहिरायुतदीधितितापम् ।