पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मृगमदसुरसूनुस्फीतचूर्णावृतानां भजतु जननि रागं त्वन्मुखाम्भोजमेतत् ।। ३६ ॥ कनकभरितपृथ्वीं मानुषानन्दमाहु- स्तदुपरि शतकोटिकामुकानन्दमाहुः । जननि, तव ददेयं दक्षिणां कां तथापि प्रथय मयि दृगन्तं दक्षिणावीक्षणेन ॥ ३७ ।। त्रिभुवनकुहरेऽस्मिन्पूरिते वेणुवीणा- पटुपटहकझिल्लीतालघण्टानिनादैः । उरगसुरवधूभिर्गीयमानं समन्ता- ज्जनयतु पदमुच्चैर्देवि नीराजनं ते ॥ ३८ ॥ प्राणेषु पञ्चसु निधाय षडात्मवृत्ति- वर्तीश्चिदग्निपरिचुम्बितजातशोभाः । नीराजयामि भवतीं भवतीव्रताप- निर्वापहेतुमधुना मधुनालसाक्षि ।। ३९ ।। उरगतुरगहंसीकेकिशालूरभृङ्गी- मदकलकलविङ्कीश्येनपारावतानाम् । गतिमिरूपचितोऽयं मौलितः पादमूलं हरतु दुरितजातं देवि कपुरदीपः ॥ ४० ॥ जय देवि जय देवि जय विश्वाधारे दीनानाथोद्धरणप्रवणे जनसारे । त्वत्पदपद्मे पद्मे विधृतव्यापारे मयि दीने कुरु करुणां करुणामृतपारे ॥ ४१ ॥ अमृतोदधिमध्यस्थितनवरत्नद्वीपे विष्वग्विकसितसुरतरुनवचम्पकनीपे नानाकुसुमामोदिनि विधुतागरुधूपे चिन्तामणिभवनेऽङ्गनतिष्ठरसुरभूपे ॥ ४२ ॥