पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । संमोहो हार्द तमस्तत्प्रशमने विनाशने सूर्याकारा भानुतुल्या । सूर्यो यथा तमोविनाशने दक्षस्तद्वद्धार्दतमोनिवृत्तये देवीत्यभिप्रायः। तथा या देवी क्षेपत्यका भर्त्सनरहिता अनिन्द्या रणभुवि आहवभूमौ कारानीतामरं बन्धनस्थापितदेवं अरिं शत्रुं आचिक्षेपाजुहावा समरार्थ- माहूतवतीत्यर्थः । काञ्चीवन्मेखलावत्स्तम्भनात्काञ्चीयमकम् । जलधरमाला नाम वृत्तम् ३५ हितेहितेऽस्तु ते स्तुते जिताजितामितामिता। जयाजया जनोऽजनो यया ययावलं बलम् ॥ ३६॥ (आवलिर्नाम यमकमिदम्) जयाख्या देवी तव हितहितेऽनुकूले चेष्टितेऽस्तु भवतु । हितं च तदीहितमिति । त्वद्धितकार्ये वर्ततामित्यर्थः । कीदृशे । हितेहिते स्तुते प्रशस्त। कीदृशी देवी । जिताजितां लब्धजयसमरतामिता गता। तथा अमिता अपरिच्छन्नस्वरूपा । अन्यत् , मया हेतुभूतया। जनो लोकः अलमत्यर्थं बलं ययौ जगाम लेभे । कीदृश्या यया। अजया जन्मरहितया । कीदृशो जनः । अजनः जन्मरहितः सन् । जननं जन इति कृत्वा नञ्समासः । प्राप्ततत्व- ज्ञान इत्यर्थः । मुमुक्षुर्जनस्स्वत्प्रसादान्मोक्षावाप्तिसामर्थ्यं लभत इत्युक्तं भवति।। ३६ ॥ सक्ति वः सुकृतार्जने विदधती सत्रा यतां त्रायतां दुर्गा दुर्ग्रहदूषितोद्धतधियामायासदा या सदा । साधूत्साहविधानसक्त्तमनसा मुख्या ततां स्याततां संस्मृत्यैव.... "मत्सरभरस्फीतापदां तापदाम् ] || ३७ ॥ '....आयासदा क्लेशदायिनी । तथा साधूत्साहविधाने सज्जनानामुत्साह- करणे सक्तमनसामभिनिविष्टचेतसां लोकपालानां मुख्या प्रधानम् । अन्यच्च संस्मृत्यैव स्मरणेनैव ततां विस्तीर्णा ख्याततां .... । मत्सरत (भ)रो द्वेषबाहुल्यं स एव..स्फीतो विप्रलाप (8) आपद्दौर्भाग्यं येषां तेषां तापदां खेदप्रदाम् ।। ३७ ॥ या मूर्ति किमपि स्मरारिवपुषा धत्ते समायोजितां यां दृष्दैव विनाशमाप सहसा शुम्भः समायोऽजिताम् । या नम्रैः सुरसिद्धकिंनरनरैः खेदं विना शस्यते सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥ ३८ ॥ त्रिलोचनवधूर्हरपत्नी ते भवतः अश्रीविनाशस्यालक्ष्मीप्रतिघातस्य हेतुर्निमित्तं भवता- त्संपद्यताम् । या स्मरारिवपुषा मदनारपुशरीरेण समायोजितां मिश्रितां मूर्ति तनुं किमपि केनापि हेतुना धत्ते धारयति । यो चाजितामपरिभूतां शुम्भाख्यो दैत्यः समायः सप्रपञ्चो- ऽपि सन्दृष्टदैवावलोक्यैव सहसा झटित्येव विनाशं मरणमापः प्राप लेभे । तथा सुरसिद्धकि- नरनरैर्देवसिद्धगन्धर्वपुरुषैः खेदं विना आलस्यं विना शस्यते स्तूयते ॥ ३८ ॥ do-