पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । हारशेखरवतंसशाटिकाप्रच्छकातुलितकञ्चुकीमुखैः । मण्डपैर्जवनिकाभिरुच्चकैः कौसुमैस्तव मुदं कदम्बये ॥ २९ ॥ कनकमयहसन्तीकोटिमध्यस्थितानां मृदुपवनधुतानां दीप्तवैश्वानराणाम् । अगरुमुपरि हुत्वा गुग्गुलुं सर्जखण्डा- न्घृतजतुपरिमिश्रं त्वां शिवे धूपयामि ॥ ३० ॥ धूपवर्तितरुमन्तरान्तरा गन्धतैलपरिपूर्णदीपिकाः । आवहन्तु तव पार्श्वयोस्तरामम्बिके जवनिकापटश्रियम् ॥ ३१॥ सुरसुरभिजसर्पिःपूरिते रत्नपात्रे हिमकिरणरजोमिर्लोडितां तूलवर्तीम् । तरुणदहनयुक्तामम्ब कृत्वा ददेयं निरयनिरसनाय प्रस्फुरन्तं प्रदीपम् ।। ३२ ।। रजतकनकहीराद्यश्मपान्नेषु मात- र्विविधरससनाथैश्चोष्यलेह्यप्रपेयैः । उपहितबहुभक्ष्यैर्व्यञ्जनैश्चारुखाद्यै- र्जठरदहनतृप्तिं नित्यतृप्ते चरेथाः ॥ ३३ ॥ परस्परकुतूहलैः कवलदानरूपैः शिवे पुराणतरुणौ युवां चरतमत्र लीलाशितम् । सुगन्धि सलिलं तथा पिबतमेणनाभीरसैः सकेसरनिशाकरै रचयतं करोद्वर्तनम् ॥ ३४ ॥ पनसकदलजम्बूकर्कटीहारहूरा- मलकबदरनिम्बूदुम्वरैर्बीजपूरैः अमृतलकुचबिल्वैर्दाडिमीनालिकेरै रुचिरुचित्तफलैस्ते वर्धतां बद्धरागा ॥ ३५ ॥ शशिकरधवलानां नागवल्लीदलानां ऋमुककदरजातीचन्द्रसंयोगभाजाम् ।