पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४३ त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । नहनमपि कचानां कङ्कतीभिर्विधाय ग्रथितमणिविभूषां देवि वेणीं करोमि । निहितनवकिरीटालम्बिमुक्तालताभि- स्ततबहलमयूखां चन्द्रलेखां विदध्याम् ॥ १६ ॥ अलिकतलविलम्बिस्फीतसीमन्तमुक्ता- सरणिघटितहीरास्पष्टचन्द्रात्ततन्द्रे । विविधमणिगणाङ्कोत्तंससंश्लिष्यदश्मा श्रवणयुगविभूषा देवि तोषाय भूयात् ।। १७ ॥ विविधविरचनाभिर्भिन्नभिन्ना विभूषा जनयतु तव कण्ठे देवि कामप्यभिख्याम् । गुणिनमपि गिरीशश्लेषदत्तान्तरायं कठिनकुचयुगाग्रे हारमारोपयामि ॥ १८॥ दरतरलविलम्बिस्वर्णसूत्रान्तगुच्छे जननि तव दिशेतामङ्गदे शर्मकर्म । अथ वलयमणीनां रश्मिसंभिन्नमुद्रां जनयतु पुनरुक्तां शृङ्खलामन्तरीणाम् ॥ १९ ॥ मणिमयरशनाधःक्षुद्रघण्टानिनादा मणितगुणनिकानां स्मारकाः स्युः शिवस्य । मरकतमणिजातं मञ्जुमञ्जीरयुग्मं रचयतु शशिमौले रञ्जनं सिञ्जितेन ।। २० ।। अरुणमणिकृतानामङ्गुलीभूषणानां प्रभवतु पदमुस्रैर्लाक्षया रञ्जितं ते । भृगमदरचितायां पत्रभङ्गीलताया- मनुभवतु दृगन्तो बन्धनं भूतभर्तुः ॥ २१ ॥ भज जननि हरिद्रां दत्तहारिद्रमुद्रां कुसुमसलिलतैलाक्रान्तकाश्मीरकोशाम् ।