पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। पुनराचमनं कार्यं जगज्जननि सुव्रते । त्वच्छिक्षितेन मार्गेण यतो लोकः प्रवर्तते ॥९॥ त्वरितसहचरीभिर्दत्तहस्तावलम्बं चरणनलिनमेतत्पादुकास्थं विधाय । प्रविश विविधशालं स्नानगेहान्तरालं पशुपतिसहितैवाभ्यङ्गमङ्गीकुरुष्व ॥ १० ॥ अपि रसिकविगीतं भक्तचित्तानुमत्यै सदयहृदयभावे स्नाहि पञ्चामृतेन । शशिमृगमदमुस्तागौरसिद्धार्थचूर्णैः कुसुमजलविमिश्रैः स्वैरमुदूर्तयाङ्गम् ॥ ११ ॥ परिजनपरिमृष्टे त्वच्छरीरे न याव- च्छिशिरसलिलधारां कापि चिक्षेप तावत् । उदयिनि जनमातः सीत्कृते बद्धभावै- स्त्रिपुरमथनहासैर्व्रीडितं क्रीडितं ते ॥ १२ ॥ अथ विमलितरत्नस्वर्णदुर्वर्णकुम्भै- त्रिभुवनगततीर्थानीतपानीयपूर्णैः । स्नपयति सुरनारीवृन्दमेतत्तथापि प्रणयजलमिदं नः स्नानकृत्यं करोतु ॥ १३ ॥ विमलधवलचीनप्रच्छदप्राकृताङ्ग्या- स्तव शिरसिरुहेभ्यो निर्हरेऽम्बाम्बुबिन्दून् । अगरुशकलधूपैर्धूप्यतां चाङ्गमङ्गं सह पशुपतिना त्वं याहि वासोगृहान्तः ॥ १४ ॥ नवविमलविचित्रे वाससी नूतरत्न- द्युतिकृतपुनरुक्तायामसंशोभिनी ते । अथ कुचपरिणाहाच्छादिनीं शंभुनेत्र- त्रितयभवदसूयां कञ्चुकीमर्पयामि ॥ १५ ॥