पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यथेप्सितमनोगतप्रकटितोपचारार्चितां निजावरणदेवतागणवृतां सुरेशस्थिताम् । कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै- र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२५ ।। विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु । चित्तं त्वत्पदभावने व्यभिचरेदृग्वा च मे जातु चे- त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥ १२६ ।। काहं मन्दमतिः क्व चेदमखिलरेकान्तभक्तैः स्तुतं ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् । कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ।। १२७ ॥ नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया । निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ।। १२८ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं श्रीत्रिपुरसुन्दरी- मानसिकोपचारपूजास्तोत्रं समाप्तम् ।

श्रीसुन्दराचार्यकविनिर्मितं गीतिशतकम् । किं देवैः किं जीवैः किं भावैस्तेऽपि येन जीवन्ति । तव चरणं शरणं मे दरहरणं देवि कान्तिमत्याम्ब ॥ १॥ अरुणाम्बुदनिभकान्ते करुणारसपूरपूर्णनेत्रान्ते । शरणं भव शशिबिम्बद्युतिमुखि जगदम्ब कान्तिमत्यम्ब ॥ २ ॥ कलिहरणं भवतरणं शुभभरणं ज्ञानसंपदां करणम् । नतशरणं तव चरणं करोतु मे देवि कान्तिमत्यम्ब ॥ ३ ॥ १. गीतिशतकमिदं तिरुनेल्वेलिडिस्ट्रिक्टप्रदेशवर्तिकीलपुत्तनेरिनिवासिभिः जयपुरि- कृष्णमाचार्यैः श्रीनिवासाचार्यैश्चास्मत्संनिधौ प्रेषितमिति तेषामुपकारगौरवं बिभृमः,