पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। निम्बूकार्द्रकचूतकन्दकदलीकौशातकीकर्कटी- धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे । राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ।। १०८॥ सितयाञ्चितलड्डुकव्रजान्मृदुपूपान्मृदुलाश्च पूरिकाः । परमान्नमिदं च पार्वति प्रणयेन प्रतिपादयामि ते ॥ १०९ ॥ दुग्धमेतदनले सुसाधितं चन्द्रमण्डलनिभं तथा दधि । फणितं शिखरिणीं सितासितां सर्वमम्ब विनिवेदयामि ते॥११०॥ अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः । देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं शक्तिभ्यः समुपाहरामि सकलं देवेशि शंभुप्रिये ॥१११॥ बामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णां दधाना- मन्येन स्वर्णदवी निजजनहृदयाभीष्टदां धारयन्तीम् । सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गीं तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि ॥ ११२ ।। पङ्क्त्योपविष्टान्परितस्तु चक्रं शक्त्या खयालिङ्गितबामभागान् । सर्वोपचारैः परिपूज्य भक्त्या तवाम्बिके पारिषदान्नमामि ॥ ११३॥ परमामृतमत्तसुन्दरीगणमध्यस्थितमर्कभासुरम् । परमामृतधूर्णितेक्षणं किमपि ज्योतिरुपास्महे परम् ॥ ११४ ।। दृश्यते तव मुखाम्बुजं शिवे श्रूयते स्फुटमनाहतध्वनिः । अर्चने तव गिरामगोचरे न प्रयाति विषयान्तरं मनः ।। ११५ ॥ त्वन्मुखाम्बुजविलोकनोल्लसत्प्रेमनिश्चलविलोचनद्वयीम् । उन्मनीमुपगतां सभामिमां भावयामि परमेशि तावकीम् ॥ ११६ ॥ चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्श समालम्बताम् ।