पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः। कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥ ९३ ॥ अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः । नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं सर्वज्ञादिकशक्तिवृन्दमनिशं वन्दे निगर्भाभिधम् ॥ ९४ ॥ सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते । रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ।। ९५ ॥ चूताशोकविकासिकेतकरजःप्रौद्भासिनीलाम्बुज- प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् । रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुश वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ।। ९६ ॥ त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी । तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७ ।। सर्वानन्दमये समस्तजगतामाकाङ्क्षिते बैन्दवे भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी । आनन्दोल्लसितेक्षणा भणिगणभ्राजिष्णुभूषाम्बरा विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी ।। ९८ ॥ उल्लसत्कनककान्तिभासुरं सौरभस्फुरणवासिताम्बरम् । दूरतः परिहृतं मधुव्रतैरर्पयामि तव देवि चम्पकम् ॥ ९९ ॥ वैरमुद्धतमपास्य शंभुना मस्तके विनिहितं कलाच्छलात् । गन्धलुब्धमधुपाश्रितं सदा केतकीकुसुममर्पयामि ते ॥ १०० ।। चूर्णीकृतं द्रागिब पद्मजेन त्वदाननस्पर्धिसुधांशुबिम्बम् । समर्पयामि स्फुटमञ्जलिस्थं विकासिजातीकुसुमोत्करं ते ॥ १०१ ॥ १ त्रिपुरमालिन्या. २, त्रिपुरासिद्धया चक्रेश्वर्याः ३. त्रिपुरभैरव्या.