पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् । सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा संपश्यन्परदेवतां परमहो मन्ये कृतार्थे जनुः ॥ २४ ॥ उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते । नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥ २५ ॥ पाद्यं ते परिकल्पयामि पदयोरर्ध्ये तथा हस्तयोः सौधीमिर्मधुपर्कमम्ब मधुरं धाराभिराखादय । तोचेनाचमनं विधेहि शुचिना गाङ्गेनः मत्कल्पितं साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थीकुरु ॥ २६ ॥ मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् । सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोञ्छनं द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥ २७॥ निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना- लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् । महेशि करुणानिधे तव हगन्तपातोत्सुका- न्विलोकय मनागमूनुभयसंस्थितान्दैवताम् ॥ २८ ॥ हेमरत्नवरणेन वेष्टितं विस्तृतारुणवितानशोभितम् । सज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥ ३९ ॥ कनककलशजालस्फाटिकस्नानपीठा- द्युपकरणविशालं गन्धमत्तालिमालम् स्फुरदरुणवितानं मञ्जुगन्धर्वगानं परमशिवमहेले मज्जनागारमेहि ॥ ३०॥ 'समभ्युच्छितां' क