पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । परिपतितपरागैः पाटलक्षोणिभागो विकसितकुसुमोच्चैः पीतचन्द्राकरश्मिः । अलिशुकपिकराजीकूजितैः श्रोत्रहारी स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५॥ रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ- स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते । क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद- श्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६॥ उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभः सत्कृष्णागुरुधूपवासितवियत्काष्ठान्तरे विश्रुतः । सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥ ७ ॥ क्वापि प्रोद्भटपद्मरागकिरणव्रातेन संध्यायितं कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि- न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥ ८॥ उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-- न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते- र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥ मणिसदनसमुद्यत्कान्तिधारानुरक्ते वियति चरमसंध्याशङ्किनो भानुरथ्याः । शिथिलितगतकुप्यत्सूतहुंकारनादैः । कथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥ १० ॥ 1 'सुर'क-ग. 'धारक'क 'मण्डपं' क. ४. "मण्डलीमालो' क.