पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवस्तुतिः । श्रीमल्लिकुचिसूरिसूनुनारायणपण्डिताचार्यविरचिता शिवस्तुतिः। सटीका ।) स्फुटं स्फटिकसपभं स्फुटितहाटक श्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिम- त्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १ ॥ भवस्यान्तः समासीनं भवतापनिवारकम् । संकर्षणं समानस्य व्याकरिष्ये शिवस्तुतिम् ।। स्फुटमिति । हे शितिकण्ठ, मे वीक्षणं ते वपुः इदा न्यवेक्षत इत्यन्वयः। शितिः कण्ठे यस्यासौ शितिकण्ठः तस्य संयुद्धिहे शितिकण्ठ नीलकण्ठ । शिती धवलमेचकौ इत्यमरः । मे मम वीक्षतेनेनेति कर्तृ ते तव वपुः शरीरं कर्म कदा नु कस्मिन्या समये स्फुटं यथा भवति तथा क्रियाविशेषणमेतत् । अवेक्षतेऽवेक्षिष्यते । करणे त्यो(कर्तृत्वो प्रचारः । कीदृशं वपुः स्फटिकसप्रभं तत् । पुनः । स्फुटितहाटकश्रीजटं स्फुटितं (तत.) संतप्तं तत् हाटकं च सुवर्णं तस्य श्रीरिव श्रीर्यासां ता एवंविधा जटा यस्य तत् । पुनः । श- शाङ्कदलशेखरं शशाङ्कस्य दलं शशाङ्कदलं. खण्डं शेखरे यस्य शिरोभूषणं यस्य ततः पुनः । कपिलफुल्लनेत्रत्रयं कपिलं पिङ्गलं विकसित नेत्रत्रयं यस्य तत् । पुनः । तरक्षु- वरकृत्तिमत् । तरक्षोर्व्याघ्रस्य वरा श्रेष्ठा या कृत्तिश्चर्मं तद्यस्यास्तीति । तद्यथा-व्या- घ्रचर्मपरिधानम् इति रुद्राध्याये । पुनः । भुजगभूषणं भुजगाः सर्पाः ते भूषणमलंकारों यस्यास्त्तीति । पुनः । भूतिमतः । 'भूतिभस्मनि संपदि' इत्यभिधानम् ॥ त्रिलोचन विलोचने लसति ते ललमायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् स्वभक्तिलतया वशीकृतवती सतीयं सती त्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ।।२।। त्रिलोचनेति । त्रीणि लोचनानि यस्यासौ त्रिलोचनः तस्य संबोधन हे त्रिलोचन ।ते तव विलोचने ललामायिते रत्नवदाचरिते विशिष्टे तृतीयनेत्रे लसति भासमाने सति स्मरः कामः भस्मसात्कृतः भस्म संपद्यत इति भस्मसात् अभूत् । किंलक्षणः । नियमिता निय- भवत्ता नियमस्य धस्मरो नाशकः । इयं सती साध्वी सती उमा स्वभक्तिरेव लतानया त्वां वशीकृतवती वशीचकार । भवान् वशी स्वतन्त्रः तथापि स्वभक्तशतः स्वकीया भक्तास्तेषां वशतोऽधीत्वतः वं मह्यं प्रसीद प्रसन्नो भव ।