पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुन्दरीशतकम् दोरान्दोलनसुभगं नितम्बभरमन्थराङ्गिविन्यासम् तव गजगामिनि गमनं कुरुते यतिचित्तसंयमनम् ॥ ८८ ।। चरणक्रममनुविलसद्भ्रूयुगविन्यासमानतग्रीवम् । नृत्यन्नितम्बबिम्बं गतमस्या कं न मोहयति ।। ८९ ॥ चरणतलगलदलक्तकवलत्पदं वर्त्म चकितनयनायाः। अनुरागबन्धपद्धतिरियतीति परं निवेदयति ॥ १० ॥ नतवदनमुन्नतभ्रूः पश्यन्ती वदनमूर्मिकामुकरें। सुन्दरि मृदु स्मयन्तीं कस्य न नयनं कृतार्थयसि ।। ९१ ॥ अघरोत्तरासमर्थं मदनपुमथै स्मितेन परिपुष्यत् । कस्यं न करोति कदनं वदनं दुष्टाधरं तस्याः ॥ १२ ॥ त्रिवलीतरङ्गतरलितनखाङ्कमीनं झषाङ्ककैवर्तः । तस्यां सुधासरस्यां वलयति रोमालिबडिशेन ।। ९३ ॥ सुन्दरि तव रोमावलिमुखाग्रजाग्रन्नखाङ्कलेखेयम् प्रत्यग्रविधृतभुजगी दंष्ट्राकोटिश्रियं वहति ।... दरविकसदम्बुजास्या भाति रवेः संमुखस्थिता नलिनी । हिमकरकरोपनीतां कदर्थनां वक्तुकामेव ।। ९५ ।। सौघशिखराधिरूढा मन्दानिलकम्पमानवसनान्ता । कस्यापि धन्यजनुषः पुण्यपताका परिस्फुरति ॥ ९६ ॥ पुनरुक्तभूषणानां हृदयाभिन्ने निवेद्यमानानाम् । सुन्दरि तव चरितानां कथमपि कथया न तृप्यामि ।। ९७ ॥ अङ्कगतस्तव कुमुदिनि मत्तो मधुपः प्रसुप्त इति मन्ये । संभावयति सरोजं यन्न विनिद्रं समागत्य ॥ ९८ ॥ अपकृतये तव पद्मिनि सहवासो भवति हन्त कुमुदिन्याः। त्वयि निशि निशि स्वपत्यामनया यन्नीयते मधुपः ॥ ९९ ।। त्वमधिकगुणासि मालति मल्लीलवलीलवङ्गलतिकाभ्यः । सकललतिकानुसारी यया निबद्धः षडङ्घ्रिरपि ।। १००