पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुन्दरीशतकम् । सुन्दरि समुदितशशिकरधौततमा नेयमष्टमी रात्रिः । विरहिजनमसितभुजगी विदृश्य परिवर्तितोत्ताना ॥ ६२ ॥ पर्यङ्कपार्श्वलग्नां गलश्रुप्लावितैकभुजमूलाम् । अञ्चलसंवृतवदनां तामन्तश्चिन्तयामि चिरम् ॥ ६३ ॥ अश्रुप्लुतमतिकातरमनिमिषमस्पन्दतारकं तस्याः । लोचनयुगलं स्मरतः स्मरतो मम केवलं भीतिः ॥ ६ ॥ प्रत्येकमिन्द्रियाणामास्तां भिन्नैव देवतान्यस्य । परिणमति मम तु सैका सकलेन्द्रियदेवतात्वेन ॥ १५ ॥ अयि पथिक रक्ष जीवं परिहर दूरेण केतकीकुसुमम् । इह वसति पुष्पधन्वा सरहरनयनान्निरातङ्कः ॥ ६६ ॥ तव रथ्या राजगृहं प्रेमधनं किं च परिजनो बन्धुः । सख्यो भूर्ताः प्राणाः सुन्दरि किमतो मनाकाङ्क्ष्यम् ॥ ६७ ॥ साहसभवनमदूतिकमवलोकनदानवर्धमानमिदम् । जयतिः क्वचिदपि कन्ये सुन्दरि सहजं तव प्रेम ॥ ६८ ॥ शितिकण्ठकण्ठकान्तिप्रतिमल्ले स्फुरति सर्वतस्तिमिरे । धन्याय वदति सुन्दरि तवागमं पारिमलोत्कर्षः ॥ ६९ ।। मन्त्रो मनसा द्वेषश्चन्द्रमसा हन्त परिचयस्तमसा । सुन्दर तवाभिसारे परिपाटी काचिदन्यैव ।। ७० आसारस्नपिते यत्प्रयासि पथि दुस्तरे पयोदजलैः प्राक्तनमुदवासतपः फलोन्मुखं कस्यचित्कृतिनः ॥ ७१ ॥ द्विगुणीकृतान्धतमसं वर्षति रुद्धानिलं पयोवाहे । आकस्मिकमागमनं कान्त्यानुमितं सखे तस्याः ॥ २ ॥ अतिमन्दवर्षदम्बुदशीकरशिशिरासान्द्रवसनायाः । आकस्मिकागतायाः कण्ठंग्रहण फलं जनुषः ॥ ७३ ।। सितवसनमौक्तिकावलिचन्दनचर्चासहायशालिन्याः । ज्योत्स्नाभिसारिणि तव च्छाया परिपन्थिनी भवति ।। ७४ ।। नव० गु०:१०