पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ काव्यमाला। सस्मितमरुणकपोलं रचितभ्रूभङ्गमञ्चितव्रीडम् । संपृक्तभावरुचिरं बदनं तस्याः स्मरामि सखे ॥ ४९ ॥ ज्ञातासि गृहजनैरिति कथिते संभ्रान्ततारकं दूत्या । अरुणमपि मानवत्याः स्मरामि पाण्डूमवद्वदनम् ॥ ५० ।। प्रेमासवोन्मदिष्णोः प्रणयतनीयांसि तानि वचनानि । करणीयानि न हृदये दयिते यदयं दयावसरः ।। ५१ ॥ तव विरहानलतप्तं स्नेहकटाहं मदन्तरात्मानम् । सुन्दरि चन्दनशाखे शीतलय स्पर्शमात्रेण ॥ ५१ ॥ सहचर कुशलं तस्याः कुशलवती कथय किमपि संदिष्टम् के संदिशतु कृशानी न तत्र मरुतोऽपि यद्गमनम् ॥ ५३ ॥ अवधिदिवसप्रयाणाः प्रियतम तस्या मृगीदृशः प्राणाः । तिष्ठन्ति कतिपयाहं कृत्वा प्रस्थानमधिकण्ठम् ।। ५४ ।। गच्छति वर्षाकाले जलवरपटली यथा यथा रिक्ता । वर्षति लोचनयुगली तथा तथा पुण्डरीकदृशः ॥ १५ ॥ नदति कलापिकलाये नवजलदच्छायशान्तसंतापे संशयदोलारूढं जीवितमस्याः स्मरेण कृतम् ॥ ५६ ॥ किं वा कृतैः प्रयत्नैरेतैस्तुहिनोपचारसमवेतैः । उष्णीभवति यदस्याः परितः शीतोऽपि संचरन्पवनः ।। ५७ ।। अग्निश्चन्दनलेपो विषममृतं मरणमेव जीवातुः । सुन्दरि विरहिजनानां काचन लोकोत्तरा रीतिः ।। ५८ ॥ विरहार्तिदलनमौषधमेकं चेष्टासु तासु तादात्म्यम् । सुन्दरि यस्मिज्जाते ब्रह्मानन्दोऽपि नाकाङ्क्षयः ।। ५९ ॥ सुन्दरि रहस्यमालिषु कल्याणी स्फूर्तिरेव तव वेद । गोत्रस्खलनभयेन त्यक्ता यद्गौरवी संसद् ।। ६० ।। सुन्दर वसन्तपथिकान्रजनिभुजङ्गी यथा यथा दशति । तद्विषसंक्रान्तिवशात्तथा तथा क्षीयते दैर्व्यात् ॥ ६१ ॥