पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। श्रीमद्दुत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकम् जयति विलासवतीनां नेत्रप्रान्तावलोकनप्राणः । वदनेन्दुद्युतिसदनः स्मितमाध्वीमेदुरो मदनः ॥ १ ॥ सहृदयहृदयग्राह्यं मदनमहीपालशासनादेव। विरचयति सुन्दरीशतमुत्प्रेक्षावल्लभः सुकविः ॥ २॥ चन्द्राधिकरुचयोऽपि क्षालनशुचयोऽपि चन्द्रकान्तेन । सुन्दरि तव नखमणयो न नयो यत्तापयन्ति मनः ॥ ३ ॥ वरवर्णिनि तव चरणौ कस्य न हृदयानुरञ्जनं कुरुतः । परमेष्ठिनोऽतिनिष्ठुरपाणितलस्पर्शतस्ताम्रो ॥ ४ ॥ सुन्दरि जङ्घायुगमिदमुपासनस्तम्भविभ्रमं धत्ते । इषुमिरतनोर्मनों में विद्धं यल्लग्नमात्रमिह ॥ ५ ॥ सुन्दरि काञ्चनकदली कर्पूरोत्पत्तिशालिनीत्यनया । चन्द्रोद्वर्तनसुरभिस्तवोरूरुपमीयते कविमिः ॥ ६ ॥ विपरीतरतसमुद्यमपुलकप्रथमानमांसलामोगम् । सुरतसुखैकनिधानं सुन्दरि जघनस्थलं जयति ॥ ७ ॥ वलिभिर्बन्धमकस्मादुपेत्य मध्वस्तनूभवत्यस्याः । आनन्दीति नितम्बः समुन्नतिं निर्भरं धत्ते ॥ ८ ॥ अम्बरचुम्बिनमेनं नितम्बमधिरुह्य मुग्धनयनायाः । दूरात्पश्यति यूनां मनांसि पाटच्चरो मदनः ॥ ९ ॥ १. अस्य कवेदेशो न ज्ञायते. गोकुलनानश्वास्योत्तमकाव्यनिर्मित्या, "उत्प्रेक्षावल्लभ' इति नाम जातमिति वरमश्लोकतो ज्ञायते. आदर्शपुस्तकसमाप्ती "चिन्तामणिभधानामिद पद्यम्-'अनलशररसधाराके वर्षे माघस्य शुक्लशुभषट्याम् । गुरुवारे रेवत्या संपूर्ण सुन्दरी- शतकम् ॥ इत्युपलभ्यते तथा च विक्रमसंवत् १६५३ (रिहस्ताब्दाः १५९४) काल: स्फुट एवं. २. अस्य काव्यस्य पुस्तकं त्वेकमेव शुद्धं जीर्ण प्राप्तम्. तच्च कदाचित्कर्तृ- समयलिखितमेव भवत