पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०
काव्यमाला ।

संघास्यन्ते त्वयि मृगदृशस्तान्विचित्रान्विलासा-
न्स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३० ॥

त्वां याचेऽहं न नयविदुषां क्वापि कार्ये विलम्बो
गन्तव्या ते सपदि नगरी स्वा यतः सा त्वदम्बा ।
मुक्ताहारा सजलनयना त्वद्वियोगार्तिदीना
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३१ ॥

तस्याधस्ताद्विषमपुलिनां स्वर्णरेखामतीतो
मार्गे दृष्ट्वा पुरमनुपमां तां भवान्वामनस्य ।
भुक्त्वा लोकोपचयमवनिं नाकिनामागतानां
शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३२ ॥

यस्यां सान्द्रोऽनुपमचलितो वैश्मसु स्वेच्छयैवं
मुष्णन्नङ्गात्सुरतललितादुज्जयन्तीं विगाह्य ।
खेदं तीरे विदलितपुटः सेवते वारनारीं
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३३ ॥

अत्र स्तम्भान्मरकतमयान्देहलीं विद्रुमाणां
प्रासादाग्रं विविधमणिभिर्निर्मितं वासवेन ।
भूमिं मुक्ताप्रकररचितां हास्तिकं चापि दृष्ट्वा
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ३४ ॥

अत्रात्युग्रैः किल मुनिवरो वामनः प्राक्तपोभि-
र्लब्ध्वा सिद्धिं निखिलभुवनव्यापिना विग्रहेण ।
ईशं वामं भुजगसदने प्रापयद्दानवाना-
मित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥ ३५ ॥

तामासाद्य प्रवरनगरीं विश्रुतां संनिवासं
कुर्याः पौरैर्नृवर विहितानेकपूजोपचारः ।
आस्तीर्णान्तर्विमलशयनेष्वग्रसौधेषु कामं
नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३६ ॥