पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
काव्यमाला ।

साध्वीमद्रिः पतिमनुगतां तत्पदन्यासपूतः
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥

सिद्धेः सङ्गं समभिलषतः प्राणनाथस्य नेमेः
सा तन्वङ्गी विरहविधुरा तच्छिरोऽधिष्ठितस्य ।
तत्संमोहाद्द्रुतमनुनयं शैलराजं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥

सा तं दूना मनसिजशरैर्यादवेशं बभाषे
रक्षेत्स्वामी शरणगमसौ भूपतीनां तु धर्मः ।
तन्मां स्वामिन्नव भवदधीनां समभ्यर्थये त्वां
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥

तुङ्गं शृङ्गं परिहर गिरेरेहि यावः पुरी स्वां
रत्नश्रेणीरचितभवनद्योतिताशान्तरालाम् ।
शोभासाम्यं कलयति मनाङ् नालका नाथ यस्या
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥

आलोक्यैनं तरलतडिदाक्रान्तनीलाब्दमालं
प्रावृट्कालं विततविकसद्यूथिकाजातिजालम् ।
अन्तर्जाग्रद्विरदहनो जीवितालम्बनेऽलं
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८॥

अस्मादद्रेः प्रसरति मरुत्प्रेरितः प्रौढनादै-
र्भिन्दानोऽयं विरहिजनताकर्णजाहं पयोदः ।
यं पश्यैताः पथिकवनिताम्भोजचन्द्रातपाभाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥९॥

वीक्ष्याकाशं नवजलधरश्याममुद्दामकामा-
विर्भावेन व्यथितवपुषो योषितो विह्वलायाः ।
काले कोऽस्मिन्वद यदुपते जीवितेशादृतेऽन्यः
सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ १० ॥