पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

उत्सृज्य प्राज्यसेवां विजनसुखजुषां भूभुजां व्याजभाजां
छित्त्वाशापाशबन्धान्विमलंशमजलैस्तीव्रतृष्णां निवार्य ।
स्थित्वा शुद्धे समाधौ किमपरममृतं मृग्यतां ज्योतिरन्त-
र्यस्मिन्दृष्टे विनष्टोत्कटतिमिरभरे लभ्यते मोक्षलक्ष्मीः ॥ ५९ ॥

वृत्त्या जीवति लोकः सेवावृत्तिर्निजैव केषांचित् ।
अस्थाने तीव्रतरा निन्द्या तु तदर्थिनां सेवा ॥ ६० ॥

विद्वज्जनाराधनतत्परेण संतोषसेवारसनिर्भरेण ।
क्षेमेन्द्रनाम्ना सुधियां सदैव सुखाय सेवावसरः कृतोऽयम् ॥ ६१ ॥

इति श्रीव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृतः सेव्यसेवकोपदेशः समाप्तः ।


श्रीविक्रमविरचितं

नेमिदूतम् ।

प्राणित्राणप्रवणहृदयो बन्धुवर्गं समग्रं
हित्वा भोगान्सह परिजनैरुग्रसेनात्मजां च ।
श्रीमान्नेमिर्विषयविमुखो मोक्षकामश्चकार
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥

सा तत्रोच्चैः शिखरिणि समासीनमेनं मुनीशं
नासान्यस्तानिमिषनयनं ध्याननिर्धूतदोषम् ।
योगासक्तं सजलजलदश्यामलं राजपुत्री
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥

उद्वीक्ष्यैनं शमसुखरतं मेदुराम्भोदनादै-
र्नृत्यत्केकिव्रजमथ नगं प्रोन्मिषन्नीपपुष्पम् ।
सा शोकार्ता क्षितितलमगात्स्यान्न दुःखं हि नार्याः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥

तां दुःखार्तां शिशिरसलिलासारसारैः समीरै-
राश्वास्यैवं स्फुटितकुटजामोदमत्तालिनादैः ।