पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२
काव्यमाला ।


किं राजभिर्दुर्जनजन्मजालव्याप्तैरवाप्तैरपि कष्टदृष्टैः ।
सन्त्येव सेव्या भुवि भूभृतस्ते तटेषु येषां मुनयो निविष्टाः ॥ ३४ ॥

तृष्णातुराणां रजसा वृतानां सेवाकुकूलानलतापितानाम् ।
शान्त्यै हितं चन्द्रकिरीटजूटमैत्रीपवित्रं त्रिदशापगाम्भः ॥ ३५ ॥

उत्सृज्य तीव्रं विषयाभिलाषं संतोषपोषं कुशलो भजस्व ।
इत्यर्थ्यमानः सुखसेवयायमात्मैव सर्वं सुधियां ददाति ॥ ३६ ॥

एकस्य जाने सुखभोगभाजः श्लाघ्यस्य सेवाव्यसनं निवृत्तम् ।
सदैव शिश्नोदरवर्जितत्वादयाच्ययाच्ञारहितस्य राहोः ॥ ३७ ॥

सेवाव्रते प्राय इवोपविष्टः सर्वात्मना निश्चितजीवनाशः ।
द्वाःस्थैः प्रयत्नेन निवारितोऽपि न दुर्ग्रहं मुञ्चति नष्टसंज्ञः ॥ ३८ ॥

तमोऽध्वतापेन च चिन्तया च शीतेन दैन्येन च पिण्डिताङ्गः ।
सुखाशया दुःखसहस्रभागी सेवाव्रतं मुग्धमतिर्बिभर्ति ॥ ३९ ॥

गच्छामि गच्छामि दिनं गतं मे दिने गतोऽहं न नृपोऽद्य दृष्टः ।
इति ब्रुवाणस्य सदा जनस्य जीर्णातरां तस्य तनुर्न तृष्णा ॥ ४० ॥

विच्छेदकारी सहसा कथानामनीप्सितो दीप इव प्रविष्टः ।
संसक्तवस्त्रान्तरमक्षिकेव न सेवकः कस्य करोति दुःखम् ॥ ४१ ॥

धूमायमानोऽक्षिविपक्षभूतश्चाटुक्रमोत्पादितकर्णशूलः ।
कुसेवकः पादतलेऽवलग्नः पदे पदे कण्टकतामुपैति ॥ ४२ ॥

एकः खमेव क्षितिमीक्षतेऽन्यः स निर्जनार्थी स च गाढलग्नः ।
स्वस्वार्थिता तस्य भृशं स चार्थी कथं स सेव्यः स च सेवकोऽस्तु ॥ १३ ॥

छायाग्रहो मूर्त इवानुयायी स्थितश्चिरं वृश्चिकनिश्चलश्च ।
अकालपाती सुखकेलिलीलायन्त्रोपलः सेवकदुर्विदग्धः ॥ ४४ ॥

विसृज्यमानोऽप्यनिशं न याति तीव्रोपरोधप्रणयेन मूर्खः ।
भर्तुः प्रसादे विहितप्रयत्नो जातः परं प्रत्युत कोपहेतुः ॥ ४५ ॥


१. कुकूलशब्दस्तुषाग्निवाचकः, तस्मादत्रानलशब्दोऽधिक इवाभाति. परंतु कवयस्त्वेवमेव प्रयुञ्जते, यथा-'शिरीषादपि मृद्वङ्गी केयमायतलोचना । अयं क्व च कुकूलाग्निकर्कशो मदनज्वरः ॥'. २. अनशनव्रते. ३. शनैश्चरः,