या कान्तिः कनकाम्बुजेऽपि सकलं द्रष्टुं तदेकत्र चे-
च्चेतः कन्दलिताद्भुतं तव सखे पश्याननं सुभ्रवः ॥ १०८ ॥
इति महाकविश्रीशंभुमिश्रकृतान्योक्तिमुक्तालता समाप्ता ।
महाकविश्रीक्षेमेन्द्रकृतः
सेव्यसेवकोपदेशः ।
विभूषणाय महते तृष्णातिमिरहारिणे ।
नमः संतोपरत्नाय सेवाविषविनाशिने ॥ १ ॥
उत्सृज्य निजकार्याणि सद्भिर्बाष्पाकुलेक्षणम् ।
सेव्यसेवकसेवानां क्रियतामनुशासनम् ॥ २ ॥
दर्पादेकः परो लोभाद्द्वावन्धौ सेव्यसेवकौ ।
धनोष्मदैन्यविकृती मुखे कः कस्य पश्यति ॥ ३ ॥
दुर्वारमोहलोभान्धो यदि न स्यादयं जनः ।
कः क्रूरक्रोधविधुरं सहेत धनिनां मुखम् ॥ ४ ॥
यः पृथ्वीमपि दर्पान्धो न पश्यति पुरःस्थिताम् ।
स दैन्यलघुतां यातं कथं सेवकमीक्षते ॥ ५ ॥
अगतिं वाहयत्येको बधिरं स्तौति चापरः ।
अहो जगति हास्याय निर्लज्जौ सेव्यसेवकौ ॥६॥
दूरं हुंकारमात्रेण विसृष्टो मार्गणः सदा ।
गुणभ्रष्टः क्रियाहीनो नोद्वेगं याति सेवकः ॥ ७ ॥
मन्ये सुकृतिना तेन भागीरथ्यां कृतं तपः ।
वैराग्यभागी रथ्यां यः सेवासु न विगाहते ॥ ८ ॥
कथितक्लेशवापेन शापेनेव विपाकिना ।
सेवातापेन पच्यन्ते नह्यदुष्कृतिनो नराः ॥ ९ ॥
अदैन्यपुण्यमनसां यशस्तेषां विराजते ।
सेवापङ्ककलङ्कानां यैर्न पात्रीकृतं शिरः ॥ १० ॥
१. मार्गणो याचकः, शरश्च.