पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
काव्यमाला ।


एतन्न पश्यथ मुखं मदिरेक्षणानां
यस्मिन्स किंकरति कैरविणीकुटुम्बः ॥ ९० ॥

न कुन्दं सामोदं जनयति मुदं नैव कुमुदं
न सारं कह्लारं कुसुमतिलकं नैव तिलकम् ।
उदात्तं निर्धूतं न च कमलमावर्जकमलं
तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम् ॥ ९१ ॥

निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः
शेवालैर्बिसकन्दलैरविरलैर्बालैर्मृणालीदलैः ।
हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं
लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः ॥ ९२ ॥

वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां
खेलत्पल्लवपार्वतीभुजलतालोलोर्मि दिव्यं सरः ।
व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी-
दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः ॥ ९३ ॥

कंचित्कालं नय गिरिगुहागह्वरे रे मुधैव
क्रीडन्हालाहलरसलसद्दर्प मा सर्प सर्प ।
माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले
येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः ॥ ९४ ॥

चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्कुरे
कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु यत्कौतुकम् ।


१. मदिरा दृष्टिविशेषस्तद्युक्ते ईक्षणे यासाम्. 'आघूर्णमानमध्या या क्षामा चाञ्चितलोचना । दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥' इति हरविजयटीकायामलकराजानकः, 'तथा संगीतकलिकायाम्-'सौष्ठवेन परित्यक्ता स्मेरापाङ्गमनोहरा । वेपमानान्तरा दृष्टिर्मदिरा परिकीर्तिता ॥' इति (१८७९ मितख्रिस्तसंवत्सरमुद्रित-विक्रमोर्वशीयटिप्पणे ५२ पृष्ठे ) शंकर-पाण्डुरङ्ग-पण्डितः. मल्लिनाथस्तु ( रघुवंशटीकायाम् ८।६८) 'माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि 'नार्यो मदिरलोचनाः' इत्यादिप्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्याः' इति वदन्भ्रान्त एव भाति. २. चन्द्रः, ३. हे सर्प, मा गच्छ. ४. स्थासक एव स्थासः.